| YouTube Channel

अन्वयबोध (anvayabodha)

 
Shabdartha Kaustubha
Kannada
अन्वयबोध
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಶಾಬ್ದಬೋಧ /ಪದಾರ್ಥಗಳಿಗೆ ಪರಸ್ಪರ ಇರುವ ಸಂಬಂಧದ ಜ್ಞಾನ
वाचस्पत्यम्
Sanskrit
अन्वयबोध
पु०
एकपदार्थे धर्म्मिणि अपरपदार्थस्य अन्वयंसम्बन्धं बोधयति आकाङ्क्षादिना, बुध--णिच्--अण् उप०स० शब्दज्ञानजन्ये शाब्दबोधरूपानुभवभेदे बोधःन प्रत्यक्षं नाप्यनुमेति नैयायिकाः किन्तु ततोविलक्षण-कारणकत्वाद्भिन्न इति यथोक्तं प्रकाशिकायाम् ।“शब्दो यदि स्वार्थस्यानुभवे भवेद्धेतुस्तर्हि प्रात्यक्षिकएवौप-नायिके, तत्र नाकाङ्क्षाद्युपयोगः, तद्भिन्ने चेदानुमानिकएव तत्र सद्यः, साकाङ्क्षत्वादिधीमात्रेण, व्याप्तिबोध-स्याप्यधिकस्यापेक्षणादित्याशङ्काममनेतुमन्वयवोधनामकमनु-भवातरं दर्शयति “साकाङ्क्षशब्दैर्योबोधस्तदर्थान्वयगोचरः सोऽयं नियन्त्रितार्थत्वान्न प्रत्यक्षं चानुसा” ।शाब्दधियः प्रत्यक्षत्वाभ्युपगमे प्रत्यक्षादिसामान्यं प्रति शाब्द-सामग्र्याः प्रतिबन्धकत्वासम्भवात्, शाब्दान्यप्रत्यक्षत्वाद्य-वच्छिन्नं प्रति तस्यास्तथात्वमपेक्ष्य शाब्दधियः प्रत्यक्षाद्भि-न्नत्वकल्पनायामेव लाघवाच्च लिङ्गजन्यत्वेनान्वय-बुद्धेरनुमितित्वसिद्धावनायत्त्या शाब्दान्यानुमित्यां तत्सा-मग्र्याः प्रतिबन्धकत्वं वाच्यमतो लिङ्गजत्वमेव शाब्द-धियः खण्डयति “योग्यतार्थगताऽऽकाङ्क्षा शब्दनिष्ठाऽनु-भाविका प्रत्येकं वा मिलित्वा वा नैते लिङ्गमसिद्धितः” ।गवादावस्तित्वादेरनुभवार्थं तावदस्तित्वबाधविरहरूपंलिङ्गं बाधनिश्चयाभावेनान्यथासिद्धस्य योग्यतानिश्चयस्या-नावश्यकत्वात् योग्यतामात्रलिङ्गकसंसर्गानुमानस्यान्वयबुद्धित्वे घटः कर्म्मत्वमित्यादिस्थलीयस्यापि तस्य तथात्वा-पाताच्च योग्यतायाः संशयस्थलेऽप्यग्वयबुद्धेरानुभविक-त्वात् गवादावस्तित्वादेरन्वयबोधानुकूलानुपूर्व्वीपर्य्यवसितात्वाकाङ्क्षा खयमसिद्धा कथमस्तित्वाद्यन्वयबोधं साधयेत्तत्र गवास्तित्वादेर्योग्यताविशिष्टमप्याकाड्क्षावत्त्वं तद-न्वयस्य नुमापकप्रसिद्धेरित्यादि”