| YouTube Channel

अन्योन्याश्रयः (anyonyAzrayaH)

 
Apte Hindi
Hindi
अन्योन्याश्रयः
वि* अन्योन्य-आश्रयः -
"आपस में या बदले की निर्भरता, कार्यकारण का इतरेतर संबंध"
E Bharati Sampat
Sanskrit
(वि) अन्योन्यम् आश्रयति अन्योन्य+आ+श्रि+अच् १.परस्परसापेक्षः। (पु) २.परस्परालम्बनम्, तर्कविशेषः, स्वग्रहसापेक्षग्रहसापेक्षग्राहकः -न्या०। अपेक्षा ज्ञप्तौ, उत्पत्तौ, स्थितौ ग्राह्या तत्र ज्ञप्तौ ‘घटोऽयं यद्येतद्घटज्ञानजन्यज्ञानविषयः स्यात् तदैतद्घटभिन्नः स्यात्’ उत्पत्तौ ‘घटोऽयं यद्येतद्घटजन्यजन्यः स्यात् तदैतद्घटजन्यभिन्नः स्यात्’ स्थितौ ‘घटोऽयं यद्येतद्घटवृत्तिवृत्तिः स्यात् तथात्वेनोपलभ्येत’ ३.परस्परज्ञानसापेक्षज्ञानाश्रयः -स्मार्ताः।
शब्दकल्पद्रुमः
Sanskrit
अन्योन्याश्रयः, त्रि, (अन्योन्यमाश्रयति, अन्योन्य +आ + श्रि + पचाद्यच् ।) परस्परज्ञानसापेक्षज्ञा-नाश्रयः इति स्मार्त्ताः
स्वग्रहसापेक्षग्रहसापेक्ष-ग्रहकः इति तार्किकाः
तर्कविशेषः तस्यलक्षणं स्वापेक्षपेक्षितत्वनिबन्धनप्रसङ्गत्वं ।अपेक्षा ज्ञप्तौ उत्पत्तौ स्थितौ ग्राह्या ।तत्राद्या यथा घटोऽयं यद्येतद्घटज्ञानजन्यज्ञान-विषयः स्यात् तदैतद्घटभिन्नः स्यात् द्वितीयायथा घटोऽयं यद्येतद्घटजन्यजन्यः स्यात् तदै-तद्घटजन्यभिन्नः स्यात् तृतीया यथा घटोऽयंयद्येतद्घटवृत्तिवृत्तिः स्यात् तथात्वेनोपलभ्येत इतिजगदीशः