| YouTube Channel

अन्योन्यः (anyonyaH)

 
E Bharati Sampat
Sanskrit
(वि) अन्य+कर्मव्यतिहारार्थे एकजातीयक्रियाकरणे द्वित्वम्, सुश्च ‘कर्मव्यतिहारे सर्वनाम्नो द्वे भवतः०’ वा०८.१.१२। १.परस्परः, उभयतः। ‘परस्परं स्यादन्योन्यम्’ हैमः। ‘अन्योन्यव्यतिकरचारुभिर्विचित्रैः’ माघः४.५३। (न) २.अर्थालङ्कारभेदः। ‘अन्योयं नाम यत्र स्यादुपकारः परस्परम् त्रियामा शशिना भाति शशी भाति त्रियामया’ कुव०४२.९७। (क्रि०वि०) ३.परस्परम् ‘अन्योन्यमुत्पीडयदुत्पलाक्ष्याः स्तनद्वयम्’ कुमा०१.४०।