| YouTube Channel

अन्यायः (anyAyaH)

 
Apte Hindi
Hindi
अन्यायः
पुं*
- -
कोई न्याय रहित या अवैधत्य
अन्यायः
पुं*
- -
"न्याय का अभाव, औचित्य का अभाव"
अन्यायः
पुं*
- -
अनियमितता
E Bharati Sampat
Sanskrit
(पु) न्यायः। १.न्यायाभावः। २.असङ्गतिः। ३.अनौचित्यम् ४.अयुक्तिः। ‘अन्यायेनापि यद्भुक्तं पित्रा पूर्व्वतरैस्त्रिभिः। तच्छक्यमपाकर्तुं क्रमात्त्रिपुरुषमागतम्’ नारदः व्य०त०। ५.पञ्चाङ्गन्यायाभावः। (वि) न्यायः यस्य ६.न्यायरहितः। ७.अनुचितः, अयुक्तः। ८.असङ्गतः। ९.प्रतिज्ञादिपञ्चवाक्यशून्यः।
Wordnet
Sanskrit
Synonyms:
अपराधः, पापम्, दोषः, पातकम्, दुष्कृतम्, दुष्कर्म, पापकर्म, कल्मषम्, कलुषम्, दुरितम्, दुरिष्ठम्, एनः, आगः, अघम्, अन्यायः, मन्तुः, कल्कः
noun
तत् कार्यं यद् धर्मशास्त्रविरुद्धम् अस्ति तथा यस्य आचरणाद् सः व्यक्तिः दण्डम् अर्हति।
"कार्यालये गृहे वा बाल-श्रमिकस्य नियुक्तिः महान् अपराधः अस्ति।"
Synonyms:
अत्याचारः, अनाचारः, अनीतिः, अन्यायः
noun
अन्यैः सह बलपूर्वकः कृतः अनुचितः व्यवहारः।
"आङ्ग्लशासनस्य अत्याचारेण भारतीया प्रजा पीडिता आसीत्।"
शब्दकल्पद्रुमः
Sanskrit
अन्यायः,
पुं,
(न्यायः सङ्गतिः युक्तिः औचित्यं, तस्मादन्यः नञ्समासः ।) न्यायभिन्नः अनौ-चित्यं अयुक्तिः यथा, --“अन्यायेनापि यद्भुक्तं पित्रा पूर्व्वतरैस्त्रिभिः ।न तच्छक्यमपाकर्त्तुं क्रमात्त्रिपुरुषागतं”
इति व्यवहारतत्त्वे नारदः