| YouTube Channel

अन्यशाखकः (anyazAkhakaH)

 
E Bharati Sampat
Sanskrit
(पु) अन्या स्वशाखेतरा शाखा वेदभागः यस्य अन्यशाख+कः। स्ववेदशाखाम् उत्सृज्य अपरशाखाध्येता, स्वाध्यायवेदशाखाभिन्नशाखाध्यायी, शाखारण्डः। ‘शाखारण्डोऽन्यशाखकः’ हैमः।
शब्दकल्पद्रुमः
Sanskrit
अन्यशाखकः,
पुं,
(अन्या स्वशाखेतरा शाखा यस्य सः, समासान्तः कः ।) स्ववेदशाखामुत्सृज्यापरशाखा-श्रयकर्म्म कुर्व्वाणः तत्पर्य्यायः शाखारण्डः ।इति हेमचन्द्रः