| YouTube Channel

अन्यवादी (anyavAdI)

 
E Bharati Sampat
Sanskrit
(पु) (अन्यवादिन्) अन्यत् पूर्वप्रतिज्ञातार्थात् भिन्नं वदति अन्य+वद(व्यक्तायां वाचि)+णिनिः। ‘सुप्यजातौ णिनिः० ३.२.७८। १. अन्यथावादी, मिथ्यावाक्, हीनविशेषः। हीनः पञ्चधा-‘ अन्यवादी क्रियाद्वेषी नोपस्थायी निरुत्तरः। आहूतप्रपलायी हीनः पञ्चविधः स्मृतः’ नारदसं०। २.वादी प्रतिवादी (स्त्री) अन्यवादिनी
शब्दकल्पद्रुमः
Sanskrit
अन्यवादी, [न्] त्रि, (अन्यत् पूर्व्वस्वीकृतवाक्यात्भिन्नं वदति, अन्य + वद् + णिनि उपपदसमासः ।)इतरवादी अस्थिरवादी अन्यथावादी यथा, --“अन्यवादी क्रियाद्वेषी नोपस्थायी निरुत्तरः ।आहूतप्रपलायी हीनः पञ्चविधः स्मृतः”
इति व्यवहारतत्त्वे नारदः