| YouTube Channel

अन्यथासिद्धिः (anyathAsiddhiH)

 
Apte Hindi
Hindi
अन्यथासिद्धिः
स्त्री*
अन्यथा-सिद्धिः -
"मिथ्या प्रदर्शन, अनावश्यक कारण, आकस्मिक या केवल मात्र सहवर्ती परिस्थिति"
E Bharati Sampat
Sanskrit
(स्त्री) अन्यथा अन्यप्रकारेण सिद्धिः १. अन्यरीत्या सिद्धिः। २.कारणताप्रतिषन्धकः पञ्चविधः दोषः, कार्याव्यवहितपूर्ववृत्तित्वे सति कार्यानुत्पादकत्वम् -न्या०।
शब्दकल्पद्रुमः
Sanskrit
अन्यथासिद्धिः,
स्त्री,
(अन्यथा अन्यप्रकारेण सिद्धिः ।)कार्य्याव्यवहितपूर्व्ववर्त्तित्वे सति कार्य्यानुत्पादकत्वं ।सा पञ्चविधा यथा यत्काय्यं प्रति कारणस्यपूर्व्ववर्त्तिता येन रूपेण गृह्यते तत्कार्य्यं प्रतितद्रूपमन्यथासिद्धं यथा घटं प्रति दण्डत्वं
यस्य स्वातन्त्र्येण अन्वयव्यतिरेकौ स्तः किन्तुकारणमादायान्वयव्यतिरेकौ तदन्यथासिद्धं यथाघटं प्रति दण्डरूपं
अन्यं प्रति पूर्व्ववर्त्तितांगृहीत्वैव यस्य यत्कार्य्यं प्रति पूर्व्ववर्त्तित्वं गृह्यतेतस्य तत्कार्य्यं प्रति अन्यथासिद्धत्वं यथा घटा-दिकं प्रति आकाशस्य
यत्कार्य्यजनकं प्रतिपूर्व्ववर्त्तित्वं गृहीत्वैव यस्य यत्कार्य्यं प्रति पूर्व्ववर्त्तित्वंगृह्यते तस्य तत्काय्यं प्रति अन्यथासिद्धत्वं यथाकुलालपितुर्घटं प्रति
अवश्यकॢप्तनियत-पूर्व्ववर्त्तिनएव कारणत्वसम्भवे तद्भिन्नमन्यथा-सिद्धं यथा घटं प्रति रासभादिः
इतिसिद्धान्तमुक्तावली