| YouTube Channel

अन्यथासिद्धः (anyathAsiddhaH)

 
E Bharati Sampat
Sanskrit
(वि) अन्यथा अन्यप्रकारेण सिद्धः। १.अन्यप्रकारेण सिद्धः पदार्थः। २.न्यायादिमते अन्यथासिद्धिरूपाणां कारणताप्रतिबन्धकानां दोषाणाम् आश्रयः वस्तु तच्च पञ्चधा १.घटादौ दण्डत्वादिकम् २.दण्डादिरूपम् ३.कुलालजनकः ४.गगनादि ५.रासभादि ‘येन सह पूर्वभावः कारणमादाय वा यस्य अन्यं प्रति पूर्वभावे ज्ञाते यत्‌पूर्वभावविज्ञानम् जनकं प्रति पूर्ववृत्तितामपरिज्ञाय यस्य गृह्यते अतिरिक्तमथापि यद् भवेन्नियतावश्यकपूर्वभाविनः॥ एते पञ्चान्यथासिद्धा दण्डत्वादिकमादिमम् घटादौ दण्डरूपादि द्वितीयमपि दर्शितम् तृतीयं तु भवेद् व्योम कुलालजनकोऽपरः। पञ्चमो रासभादिः स्यादेतेष्वावश्यकस्त्वसौ’ कारिका०१.१९-२२।