| YouTube Channel

अन्नमयः (annamayaH)

 
E Bharati Sampat
Sanskrit
(वि) अन्नस्य विकारः। अन्न+मयट्(विकारार्थे) ‘मयट् च’ ४.३.८१। १.अन्नविकृतिः। ‘अन्नमयं हि सौम्य मनः’ श्रुतिः। (पुं) २.स्थूलशरीरम् ‘पितृभुक्तान्नजाद्वीर्याज्जातोऽन्नेनैव वर्धते देहः सोऽन्नमयो नात्मा प्राक्चोर्ध्वं तदभावतः’ वृद्धोक्तिः। ३.अन्नप्रकृतम् उच्यते अस्मिन् अन्न+मयट् ‘तत्प्रकृतवचने मयट्’ ५.४.२१। अन्नप्रचुरः यज्ञादिः। ‘अन्नमयो यज्ञः’ सि०कौ०२०८९। (स्त्री) अन्नमयी