| YouTube Channel

अन्नप्राशनं (annaprAzanaM)

 
शब्दकल्पद्रुमः
Sanskrit
अन्नप्राशनं,
क्ली,
(अन्नस्य प्राशनं भोजनं यस्मिन्तत् अन्न + प्र + अश + भावे ल्युट् ।) षष्ठेमासि अष्टमे वा बालकस्य पञ्चमे मासि सप्तमेवा बालिकायाः प्रथमान्नभक्षणरूपसंस्कारः इतिस्मृतिः
तस्य क्रमः शोभनदिने कृतस्नानः कृत-वृद्धिश्राद्धः पिता शुचिनामानमग्निं संस्थाप्यंविरूपाक्षजपान्तां कुशण्डिकां समाप्य प्रकृत-कर्म्मारम्भे प्रादेशप्रमाणां धृताक्तां समिधं तूष्णी-मग्नौ हुत्वा महाव्याहृतिहोमं कुर्य्यात् ततःआज्येन तत्तन्मन्त्रैः पञ्चाहुतीर्जुहुयात् ततःपञ्चप्राणानां होमः ततो महाव्याहृतिहोमंकृत्वा प्रादेशप्रमाणां घृताक्तां समिधं तूष्णीमग्नौहुत्वा प्रकृतं कर्म्म समाप्य उदीच्यं शाट्यायन-होमादिवामदेव्यगानान्तं कर्म्म निर्व्वर्त्य मन्त्रेणकुमारस्य मुखे अन्नं दद्यात् ततः कर्म्मकार-यितृब्राह्मणाय दक्षिणां दद्यात् इति भवदेव-भट्टः
तस्य विहितदिनादि यथा, --“ततोऽन्नप्राशनं षष्ठे मासि कार्य्यं यथाविधि ।अष्टमे वाथ कर्त्तव्यं यद्वेष्टं मङ्गलं कुले”
षष्ठ इति मुख्यः कल्पः प्रागुक्तन्यायात् कृत्य-चिन्तामणौ ।“अन्नस्य प्राशनं कार्य्यं मासि षष्ठेऽष्टमे बुधैः ।स्त्रीणान्तु पञ्चमे मासि सप्तमे प्रजगौ मुनिः
द्वादशीसप्तमीनन्दारिक्तासु पञ्चपर्ब्बसु ।बलमायुर्यशो हन्यात् शिशूनामन्नभक्षणं”
भुजबलभीमे ।“षष्ठे मासि निशाकरे शुभकरे रिक्तेतरे वा तिथौसौम्यादित्यसितेन्दुजीवदिवसे पक्षे कृष्णेतरे ।प्राजेशादिति पौष्णवैष्णवयुगैर्हस्तादिषट्कोत्तरै-राग्नेयाप्पतिपित्र्यभैश्च नितरामन्नादिभक्षं शुभं”
युगैरिति प्राजेशादौ प्रत्येकं सम्बध्यते तथा-त्रापि तिथ्यादिविद्धमृक्षं विवर्ज्जयेत् ।“ष्टषद्वन्द्वधनुर्म्मीनकन्यालग्नेऽन्नभक्षणं ।त्रिकोणाष्टकयूकान्त्यग्रहा यद्वत्तथाफलं
दुष्टः शशधरो लग्नात् षष्ठाष्टस्थोऽन्नभक्षणे” ।मार्कण्डेयः ।“देवता पुरतस्तस्य पितुरङ्कगतस्य ।अलङ्कृतस्य दातव्यमन्नं पात्रे काञ्चने
मध्वाज्यकनकोपेतं प्राशयेत् पायसं ततः ।कृतप्राशनमुत्सङ्गे मातुर्ब्बालन्तु तं न्यसेत्
देवाग्रतोऽथ विन्यस्य शिल्पभाण्डानि सर्व्वशः ।शास्त्राणि चैव शस्त्राणि ततः पश्येत्तु लक्षणं
प्रथमं यत् स्पृशेद्बालः शिल्पभाण्डं स्वयं तथा ।जीविका तस्य बालस्य तेनैव तु भविष्यति”
इति ज्योतिस्तत्त्वं