अन्नपूर्णा (annapUrNA)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Goldstucker
Englishअन्नपूर्णा Tatpur. f. (-णा)
^1 A name of Durgā or Pārvatī (lit.
‘full with food’). [“
^2 Hence applied to a female cook under
whose management the daily provision seems blessed and
increased.
^3 A term for an alm's bag.
^4 A particular drink-
ing vessel used at Benares
so named after the goddess.”]
E. अन्न and पूर्ण.
Apte Hindi
Hindiअन्नपूर्णा
अन्नम्-पूर्णा -
दुर्गा देवी का एक रूप
Shabdartha Kaustubha
Kannadaअन्नपूर्णा
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಅನ್ನಪೂರ್ಣಾದೇವಿ
व्युत्पत्तिः - > अन्नं पूर्णं यया
E Bharati Sampat
Sanskrit(स्त्री) अन्नं पूर्णं यस्याः, अन्नं पूर्णं यया वा । राजदन्तादित्वात् परनिपातः। ‘राजदन्तादिषु परम्’ २.२.३१। अन्नपूर्णादेवी, काशीश्वरगृहिणी । ‘अन्नपूर्णे सदापूर्णॆ शङ्करप्राणवल्लभे’ श्रीशङ्करः।
Wordnet
Sanskrit अन्नपूर्णा
अन्नस्य अधिष्ठात्री देवी।
"सीता प्रतिदिनम् अन्नपूर्णां पूजयति।"
दुर्गा, उमा, कात्यायनी, गौरी, ब्रह्माणी, काली, हैमवती, ईश्वरा, शिवा, भवानी, रुद्राणी, सर्वाणी, सर्वमङ्गला, अपर्णा, पार्वती, मृडानी, लीलावती, चणडिका, अम्बिका, शारदा, चण्डी, चण्डा, चण्डनायिका, गिरिजा, मङ्गला, नारायणी, महामाया, वैष्णवी, महेश्वरी, कोट्टवी, षष्ठी, माधवी, नगनन्दिनी, जयन्ती, भार्गवी, रम्भा, सिंहरथा, सती, भ्रामरी, दक्षकन्या, महिषमर्दिनी, हेरम्बजननी, सावित्री, कृष्णपिङ्गला, वृषाकपायी, लम्बा, हिमशैलजा, कार्त्तिकेयप्रसूः, आद्या, नित्या, विद्या, शुभह्करी, सात्त्विकी, राजसी, तामसी, भीमा, नन्दनन्दिनी, महामायी, शूलधरा, सुनन्दा, शुम्यभघातिनी, ह्री, पर्वतराजतनया, हिमालयसुता, महेश्वरवनिता, सत्या, भगवती, ईशाना, सनातनी, महाकाली, शिवानी, हरवल्लभा, उग्रचण्डा, चामुण्डा, विधात्री, आनन्दा, महामात्रा, महामुद्रा, माकरी, भौमी, कल्याणी, कृष्णा, मानदात्री, मदालसा, मानिनी, चार्वङ्गी, वाणी, ईशा, वलेशी, भ्रमरी, भूष्या, फाल्गुनी, यती, ब्रह्ममयी, भाविनी, देवी, अचिन्ता, त्रिनेत्रा, त्रिशूला, चर्चिका, तीव्रा, नन्दिनी, नन्दा, धरित्रिणी, मातृका, चिदानन्दस्वरूपिणी, मनस्विनी, महादेवी, निद्रारूपा, भवानिका, तारा, नीलसरस्वती, कालिका, उग्रतारा, कामेश्वरी, सुन्दरी, भैरवी, राजराजेश्वरी, भुवनेशी, त्वरिता, महालक्ष्मी, राजीवलोचनी, धनदा, वागीश्वरी, त्रिपुरा, ज्वाल्मुखी, वगलामुखी, सिद्धविद्या, अन्नपूर्णा, विशालाक्षी, सुभगा, सगुणा, निर्गुणा, धवला, गीतिः, गीतवाद्यप्रिया, अट्टालवासिनी, अट्टहासिनी, घोरा, प्रेमा, वटेश्वरी, कीर्तिदा, बुद्धिदा, अवीरा, पण्डितालयवासिनी, मण्डिता, संवत्सरा, कृष्णरूपा, बलिप्रिया, तुमुला, कामिनी, कामरूपा, पुण्यदा, विष्णुचक्रधरा, पञ्चमा, वृन्दावनस्वरूपिणी, अयोध्यारुपिणी, मायावती, जीमूतवसना, जगन्नाथस्वरूपिणी, कृत्तिवसना, त्रियामा, जमलार्जुनी, यामिनी, यशोदा, यादवी, जगती, कृष्णजाया, सत्यभामा, सुभद्रिका, लक्ष्मणा, दिगम्बरी, पृथुका, तीक्ष्णा, आचारा, अक्रूरा, जाह्नवी, गण्डकी, ध्येया, जृम्भणी, मोहिनी, विकारा, अक्षरवासिनी, अंशका, पत्रिका, पवित्रिका, तुलसी, अतुला, जानकी, वन्द्या, कामना, नारसिंही, गिरीशा, साध्वी, कल्याणी, कमला, कान्ता, शान्ता, कुला, वेदमाता, कर्मदा, सन्ध्या, त्रिपुरसुन्दरी, रासेशी, दक्षयज्ञविनाशिनी, अनन्ता, धर्मेश्वरी, चक्रेश्वरी, खञ्जना, विदग्धा, कुञ्जिका, चित्रा, सुलेखा, चतुर्भुजा, राका, प्रज्ञा, ऋद्भिदा, तापिनी, तपा, सुमन्त्रा, दूती, अशनी, कराला, कालकी, कुष्माण्डी, कैटभा, कैटभी, क्षत्रिया, क्षमा, क्षेमा, चण्डालिका, जयन्ती, भेरुण्डा
सा देवी यया नैके दैत्याः हताः तथा च या आदिशक्तिः अस्ति इति मन्यते।
"नवरात्रोत्सवे स्थाने स्थाने दुर्गायाः प्रतिष्ठापना क्रियते।"
शब्दकल्पद्रुमः
Sanskritअन्नपूर्णा, (अन्नं पूर्ण्णं यस्याः सा राजदन्ता-दित्वात् परनिपातः ।) स्वनामख्यातदेवीविशेषःतन्मन्त्रादि यथा, --“माया हृद्भगवत्यन्ते माहेश्वरिपदं ततः ।अन्नपूर्णे ठयुगलं मनुः सप्तदशाक्षरः” ॥
कल्पे च ।“प्रणवाद्या यदा देवी तदा सप्तदशाक्षरी ।अन्नप्रदा मोक्षदा च सदा विभवदायिनी ॥
मायाद्या च यदा देवी तदा सा सकलेष्टदा ।श्रीवीजाद्यायदा देवी तदा सुखविवर्द्धिनो ॥
वाग्वीजाद्या यदा विद्या वागीशत्वप्रदायिनी ।कामाद्या च यदा विद्या सर्व्वकामप्रदायिनी ॥
तारमायादिका विद्या भोगमोक्षैकदायिनी ।माया श्रीयुग्मवीजाद्या सदा विभवदायिनी ॥
श्रीमाया युग्मवीजाद्या सर्व्वसम्पत्तिपूरणी” ॥
* ॥
एषां पूजा प्रातःकृत्यादिपीठन्यासान्तं विधायहृत्पद्मस्य केशरेषु मध्येषु च भुवनेश्वरीपीठ-मन्वन्तं पीठशक्तीर्न्यस्य ऋष्यादिन्यासं कुर्य्यात् ।यथा शिरसि ब्रह्मणे ऋषये नमः । मुखे पङ्क्ति-च्छन्दसे नमः । हृदि अन्नपूर्णायै देवतायै नमः ।तत्रैव ।“एतेषां मन्त्रराशीनां ऋषिर्ब्रह्मा उदाहृतः ।पङ्क्तिः छन्दः समाख्यातं देवता चान्नपूर्णिका” ॥
ततः कराङ्गन्यासौ । ह्रीँ अङ्गुष्ठाभ्यां नमः । ह्रीँहृदयाय नमः । इत्यादि सर्व्वत्र मायावीजेनकुर्य्यात् । तथा च निबन्धे ।अङ्गानि मायया कुर्य्यात् ततो देवीं विचिन्तयेत् ।कल्पे च ।“यद्वीजाद्या भवेद्विद्या तद्वीजेनाङ्गकल्पना” ॥
* ॥
।ततो ध्यानं ।“रक्तां विचित्रवसनां नवचन्द्रचूडा-मन्नप्रदाननिरतां स्तनभारनम्रां ।नृत्यन्तमिन्दुसकलाभरणं विलोक्यहृष्टां भजे भगवतीं भवदुःखहन्त्री” ॥
एवं ध्यात्वा मानसैः संपूज्य शङ्खस्थापनं कुर्य्यात् ।ततः सामान्योक्तपीठपूजां विधाय भुवनेश्वरी-मन्त्रोक्तजयादिपीठमन्वन्तां पीठपूजां विधाय पुन-र्ध्यात्वा आवाहनादिपञ्चपुष्पाञ्जलिदानपर्य्यन्तं वि-धाय आवरणपूजामारभेत । यथा केशरेष्वग्नि-कोणे ह्रीँ हृदयाय नमः । नैरृते ह्रीँ शिरसेस्वाहा । वायव्ये ह्रीँ शिखायै वषट् । ऐशान्यांह्रीँ कवचाय हूँ । मध्ये नेत्रत्रयाय वौषट् । चतु-र्द्दिक्षु ह्रीँ अस्त्राय फट् । अष्टदलेषु पूर्व्वादिषुब्राह्म्यै माहेश्वर्य्यै कौमार्य्यै वैष्णव्यै वाराह्यै इन्द्राण्यैचामुण्डायै महालक्ष्म्यै प्रणवादिनमोऽन्तेन पूज-येत् । तत्रैव ।“दलेषु पूजयेदेता ब्राह्म्याद्याः क्रमशः सुधीः” ।शूद्रस्य प्रणवश्चतुर्द्दशस्वरो विन्दुयुक्तः ॥
कालिका-पुराणे मन्त्रस्य सेतुकरणे उक्तत्वात् । तत इन्द्रा-दीन् वज्रादींश्च पूजयित्वा धूपादि विसर्ज्जनान्तंकर्म्म समापयेत् ॥
* ॥
अस्य पुरश्चरणजपः षोड-शसहस्रसङ्ख्यः । तथा च ।“यथाविधि जपेन्मन्त्रं वसुयुग्मसहस्रकं ।साज्येनान्नेन जुहुयात्तद्दशांशमनन्तरं” ॥
अयं मन्त्रः प्रणवादिरष्टादशाक्षरः । मायादिःश्रीवीजादिश्च । तथा मायां विना प्रणवादिःकामादिः श्रीवीजादिः वाग्भवादिश्च सप्तदशा-क्षरः । कवचे तथा प्रतिपादनात् । विशेषस्तुयद्यद्वीजादिको मन्त्रस्तेनैवाङ्गप्रकल्पना ॥
* ॥
अथान्नपूर्णास्तोत्रं ।“नमः कल्याणदे देवि नमः शङ्गरवल्लभे ।नमो भक्तप्रिये देवि अन्नपूर्णे नमोऽस्तु ते ॥
नमो मायागृहीताङ्गि नमः शङ्करवल्लभे ।माहेश्वरि नमस्तुभ्यमन्नपूर्णे नमोऽस्तु ते ॥
महामाये शिवधर्म्मपत्नीरूपे हरप्रिये ।वाञ्छादात्रि सुरेशानि अन्नपूर्णे नमोऽस्तु ते ॥
उद्यद्भानुसहस्राभे नयनत्रयभूषिते ।चन्द्रचूडे महादेवि अन्नपूर्णे नमोऽस्तु ते ॥
विचित्रवसने देवि अन्नदानरतेऽनघे ।शिवनृत्यकृतामोदे अन्नपूर्णे नमोऽस्तु ते ॥
साधकाभीष्टदे देवि भवदुःखविनाशिनि ।कुचभारनते देवि अन्नपूर्णे नमोऽस्तु ते ॥
षट्कोणपद्ममध्यस्थे षडङ्गयवतीमये ।ब्रह्माण्यादिस्वरूपे च अन्नपूर्णे नमोऽस्तु ते ॥
देवि चन्द्रकृतापीडे सर्व्वसाम्राज्यदायिनि ।सर्व्वानन्दकरे देवि अन्नपूर्णे नमोऽस्तु ते ॥
इन्द्राद्यञ्चितपादाब्जे रुद्रादिरूपधारिणि ।सर्व्वसम्पत्प्रदे देवि अन्नपूर्णे नमोऽस्तु ते ॥
पूजाकाले पठेद्यस्तु स्तोत्रमेतत् समाहितः ।तस्य गेहे स्थिरा लक्ष्मीर्जायते नात्र संशयः ॥
प्रातःकाले पठेद्यस्तु मन्त्रजापपुरःसरं ।तस्य चान्नसमृद्धिः स्याद्वर्द्धमाना दिने दिने ॥
यस्मै कस्मै न दातव्यं न प्रकाश्यं कदाचन ।प्रकाशात् कार्य्यहानिः स्यात्तस्माद्यत्नेन गोपयेत्” ॥
इत्यन्नपूर्णास्तोत्रं समाप्तं ॥
* ॥
अथ अन्नपूर्णाकवचं ॥
“कथिताश्चान्नपूर्णाया या या विद्याः सुटुर्ल्लभाः ।कृपया कथिताः सर्व्वा श्रुताश्चाधिगता मया ॥
साम्प्रतं श्रोतुमिच्छामि कवचं यत् पुरोदितं ।त्रैलोक्यरक्षणं नाम कवचं मन्त्रविग्रहं” ॥
ईश्वर उवाच ।“शृणु पार्ब्बति वक्ष्यामि सावधानावधारय ।त्रेलोक्यरक्षणं नाम कवचं ब्रह्मरूपकं ॥
ब्रह्मविद्यास्वरूपञ्च महदैश्वर्य्यदायकं ।पाठनाद्धारणान्मर्त्यस्त्रैलोक्यैश्वर्य्यभाग्भवेत् ॥
त्रैलोक्यरक्षणस्यास्य कवचस्य ऋषिः शिवः ।छन्दो विराडन्नपूर्णा देवता सर्व्वसिद्धिदा ॥
धर्म्मार्थकाममोक्षेषु विनियोगः प्रकीर्त्तितः ।ह्रीँ नमो भगवत्यन्ते माहेश्वरिपदं ततः ।अन्नपूर्णे ततः स्वाहा चैषा सप्तदशाक्षरी ॥
पातु मामन्नपूर्णा सा या ख्याता भुवनत्रये ।विमाया प्रणवाद्यैषा तथा सप्तदशाक्षरी ॥
पात्वन्नपूर्णा सर्व्वाङ्गं रत्नकुम्भान्नपात्रदा ।श्रीवीजाद्या तथा चैषा द्विरन्ध्रार्णा तथा मुखं ॥
प्रणवाद्या भ्रुवौ पातु कण्ठं वाग्वीजपूर्व्विका ।कामवीजादिका चेषा हृदयन्तु महेश्वरी ॥
तारं श्रीँ ह्रीँ नमोऽन्ते च भगवति पदं ततः ।माहेश्वरि पदं चान्नपूर्णे स्वाहेति पातु मे ॥
नाभिमेकोनविंशार्णा पायान्माहेश्वरी सदा ।तारं माया रमा कामः षोडशार्णास्ततःपरं ॥
शिरःस्था सर्व्वदा पातु विंशत्यर्णात्मिका च या ।करौ पादौ सदा पातु रमा कामोध्रुवस्तथा ॥
ध्वजञ्च सर्व्वदा पातु विंशत्यर्णात्मिका च या ।अन्नपूर्णा महाविद्या ह्रीँ पातु भुवनेश्वरी ॥
शिरः श्रीँ ह्रीँ तथा क्लीञ्च त्रिपुटा पातु मे गुदं ।षड्दीर्घभाजा वीजेन षडङ्गानि पुनन्तु मां ॥
इन्द्रो मां पातु पूर्व्वे च वह्निकोणेऽनलोऽवतु ।यमो मां दक्षिणे पातु नैरृत्यां निरृतिश्च मां ॥
पश्चिमे वरुणः पातु वायव्यां पवनोऽवतु ।कुवेरश्चोत्तरे पातु मामैशान्यां शिवोऽवतु ॥
ऊर्द्ध्वाधः सततं पातु ब्रह्मानन्तो यथाक्रमात् ।वज्राद्याश्चायुधाः पान्तु दशदिक्षु यथाक्रमात् ॥
इति ते कथितं पुण्यं त्रैलोक्यरक्षणं परं ।यद्धृत्वा पठनाद्देवाः सर्व्वैश्वर्य्यमवाप्नुयुः ॥
ब्रह्मा विष्णुश्च रुद्रश्च कवचं धारणाद्यतः ।सृजत्यवति हन्त्येव कल्पे कल्पे पृथक् पृथक् ॥
पुष्पाञ्जल्यष्टकं देव्यै मूलेनैव पठेत्ततः ।युगायुतकृतायास्तु पूजायाः फलमाप्नुयात् ॥
प्रीतिमन्योन्यतः कृत्वा कमला निश्चला गृहे ।वाणी वक्त्रे वसेत्तस्य सत्यं सत्यं न संशयः ॥
अष्टोत्तरशतं चास्य पुरश्चर्य्याविधिः स्मृतः ।भूर्ज्जे विलिख्य गुलिकां स्वर्णस्थां धारयेद्यदि ॥
कण्ठे वा दक्षिणे बाहौ सोऽपि सर्व्वतपोमयः ।ब्रह्मास्त्रादीनि शस्त्राणि तद्गात्रं प्राप्य पार्ब्बति ।माल्यानि कुसुमान्येव भवन्त्येव न संशयः” ॥
इति भैरवतन्त्रे भैरवभैरवीसंवादे अन्नपूर्णाकवचंसमाप्तं । इति तन्त्रसारः ॥
* ॥
तस्याः स्तुत्यन्तरंयथा । ओँ नमोऽन्नपूर्णायै ।“ओँ नित्यानन्दकरी वराभयकरी सौन्दर्य्यरत्नाकरीनिर्धूताखिलघोरपावनकरी प्रत्यक्षमाहेश्वरी ।प्रालेयाचलवंशपावनकरी काशीपुराधीश्वरीभिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥
१ ॥
नानारत्नविचित्रभूषणकरी हेमाम्बराडम्बरीमुक्ताहारविलम्बमानविलसद्वक्षोजकुम्भान्तरी ।काश्मीरागुरुवासिताङ्गसुचरी काशीपुराधीश्वरी ।भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥
२ ॥
योगानन्दकरी रिपुक्षयकरी धर्म्मैकनिष्ठाकरीचन्द्रार्कानलभासमानलहरी त्रैलोक्यरक्षाकरी ।सर्व्वैश्वर्य्यकरी तपःफलकरी काशीपुराधीश्वरीभिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥
३ ॥
कैलासाचलकन्दरालयकरी गौरी उमा शङ्करीकौमारी निगमार्थगोचरकरी ओँकारवीजाक्षरी ।मोक्षद्वारकवाटपाटनकरी काशीपुराधीश्वरीभिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥
४ ॥
दृश्यादृश्यविभूतिभावनकरी ब्रह्माण्डभाण्डोदरीलीलानाटकसूत्रभेदनकरी विज्ञानदीपाङ्कुरी ।विश्वाधीशमनःप्रमोदनकरी काशीपुराधीश्वरीभिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥
५ ॥
गुर्व्वी सर्व्वजनेश्वरी जयकरी मातान्नपूर्णेश्वरीनारीनीलसमानकुन्तलधरी नित्यान्नदानेश्वरी ।सर्व्वानन्दकरी सदा शिवकरी काशीपुराधीश्वरीभिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥
६ ॥
आदिक्षान्तसमस्तवर्णनकरी चन्द्रप्रभा भास्करीकाश्मीरात्रिपुरेश्वरीत्रिलहरी नित्याङ्कुरी शर्ब्बरी ।कामाकाङ्क्ष्यकरी महोत्सवकरी काशीपुराधीश्वरीभिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥
७ ॥
चन्द्रार्कानलकोटिपूर्णवदना बालार्कवर्णेश्वरीचन्द्रार्काग्निसमानकुण्डलधरी चन्द्रार्कविम्बाधरी ।मालापुस्तकपाशकाङ्कुशधरी काशीपुराधीश्वरीभिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥
८ ॥
दर्व्वीपाकसुवर्णरत्नघटिका दक्षे करे संस्थितावामे चारुपयोधरी रसभरी सौभाग्यमाहेश्वरी ।भक्ताभीवृकरी फलप्रदकरी काशीपुराधीश्वरीभिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥
९ ॥
सर्व्वत्राणकरी महाभयहरी माता कृपासागरीदाक्षानन्दकरी निरामयकरी विश्वेश्वरी श्रीधरी ।साक्षान्मोक्षकरी सदाशिवकरोकाशीपुराधीश्वरीभिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥
१० ॥
अन्नपूर्णे सदा पूर्णे शङ्करप्राणबल्लभे ।ज्ञानवैराग्यसिद्ध्यर्थं भिक्षां देहि नमोऽस्तु ते ॥
११ ॥
इति श्रीशङ्कराचार्य्यविरचितमन्नपूर्णास्तोत्रं स-माप्तं ॥
क्वचित् पुस्तके शङ्कराचार्य्यस्थाने वेदव्यासइति पाठः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
