| YouTube Channel

अन्धतामिस्रम् (andhatAmisram)

 
E Bharati Sampat
Sanskrit
(न) अन्धं निबिडं तामिस्रम्। १.निबिडान्धकारः, गाढान्धकारः। (पुंन) २.एकविंशतिनरकभेदेषु द्वितीयं नरकम् ‘तामिस्रमन्धतामिस्रं महारौरवरौरवौ नरकं कालसूत्रं महानरकमेव च’ मनुः४.८८। तस्या धर्मपत्न्यामन्धतामिस्रमभ्यध्यायत्’ महावी०।‘अन्धतामिस्रा ह्यसूर्यास्ते लोकास्तेभ्यः प्रतिविधीयन्ते यः आत्मघातिनः इति ऋषयो मन्यन्ते रा (पु) भयविशेषविषयकः अभिनिवेशः -सां०। ‘तामिस्रोऽष्टादशधा तथा भवत्यन्धतामिस्रः’ सा०का०। ‘देहे नष्टे अहमेव नष्टोऽस्मि’ इत्याकारकम् अज्ञानम् ३. पञ्चप्रकारान्तर्गताज्ञानविशेषः।
Wordnet
Sanskrit
Synonyms:
अन्धतामिस्रम्
noun
योगशास्त्रानुसारेण पञ्चप्रकारकाज्ञानान्तर्गताज्ञानविशेषः।
"अन्धतामिस्रे मनुष्यः किमपि चिन्तयितुं शक्नोति।"
Synonyms:
अन्धतामिस्रम्
noun
नरकविशेषः यस्मिन् विश्वासघातिनः गच्छन्ति।
"अन्धतामिस्रस्य वर्णनं पुराणेषु प्राप्यते।"
Synonyms:
अज्ञानम्, अविद्या, अहम्मतिः, तमः, मोहः, महामोहः, तामिस्रम्, अन्धतामिस्रम्
noun
सदसद्भ्यामनिर्वचनीयं त्रिगुणात्मकं भावरूपं ज्ञानविरोधि यत्किञ्चित्।
"गुरुः अज्ञानं हरति जीवनं विद्यया प्रकाशयति च।/ अज्ञानात् वारुणीं पीत्वा संस्कारेणैव शुद्धति।"