| YouTube Channel

अन्धकः (andhakaH)

 
Apte Hindi
Hindi
अन्धकः
पुं*
- अन्ध+कन्
कश्यप और दिति का पुत्र राक्षस था और शिव के हाथों मारा गया था
E Bharati Sampat
Sanskrit
(पुं) अन्ध(दृष्ट्युपाघाते)+ण्वुल् १.देशभेदः। २.यादवभेदः। ‘अन्धकं महाबाहुं वृष्णिं यदुनन्दनम्’ हरिवं०३८अ०। ३. असुरभेदः, शिवेन हतः दितिकश्यपयोः पुत्रः। ‘स व्रजत्यन्धवद्यस्मादनम्धोऽपि हि भारत तमन्धकोऽयं नाम्नेति प्रोचुस्तत्र निवासिनः’ हरिवं०१४५अ०। ४.अन्धकवंशस्य मूलपुरुषः नृपभेदः। ‘सुदंष्ट्रं सुचारुं कृष्णमित्यन्धकास्त्रयः’ हरिवं०। ५.अन्धः एव अन्धः+कन्(स्वार्थे) मुनिभेदः, दीर्घतमाः। बृहस्पतिज्येष्ठभ्रातुः उतथ्यात् ममतायाम् उत्पन्नः बृहस्पतिशापात् अन्धत्वं प्राप्तः। ६.मृत्युः, कालधर्मः। ‘कालधर्मस्तु दिष्टान्तो निपातो गमिरन्धकः’ वैज०। ७.तिमिरम्, अन्धकारः। (वि) ७.दृष्टिहीनः। ‘अन्धकः कुब्जकश्चैव राजकन्या त्रिस्तनी’ पञ्चत०।
Wordnet
Sanskrit
Synonyms:
अन्धकः
noun
एकः दैत्यः।
"शड़्करः अन्धकं जघान।"
Synonyms:
अन्धः, अन्धकः, अचक्षूः, विचक्षूः, गताक्षः, अनक्षः, दृष्टिहीनः, नेत्रहीनः, चक्षुहीनः
adjective
नेत्रेन्द्रियविकलः।
"श्यामः अन्धं जनं मार्गपारं नयति।"
शब्दकल्पद्रुमः
Sanskrit
अन्धकः,
पुं,
(अन्ध + ण्वुल् ।) देशभेदः इतिशब्दरत्नावली
नृपभेदः ।(“सुदंष्ट्रं सुचारुं कृष्णमित्यन्धकास्त्रयः” ।इति हरिवंशे ।) असुरभेदः इति महाभारतं
(“स व्रजत्यन्धवद्यस्मादनन्धोऽपि हि भारत ।तमन्धकोऽयं नाम्नेति प्रोचुस्तत्र निवासिनः” ।इति हरिवंशे ।) मुनिविशेषः इति याज्ञ-वल्क्यः
(दृष्टिहीनः चक्षुर्द्वयहीनः ।“अन्धकः कुब्जकश्चैव राजकन्या त्रिस्तनी ।त्रयोऽप्यन्यायतः सिद्धाः सम्मुखे कर्म्मणि स्थिते”
इति पञ्चतन्त्रे ।)