अन्त्रवृद्धिः (antravRddhiH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte Hindi
Hindiअन्त्रवृद्धिः
अन्त्रम्-वृद्धि -
"आंत उतरने की बीमारी, हरणिया, अंडकोश बढ़ने का रोग"
E Bharati Sampat
Sanskrit(स्त्रीपुं) अन्त्रजन्या वृद्धिः। रोगभेदः। ‘यच्चान्त्रावयवश्लिष्टान्मुष्कयोर्वातसञ्चयात् । स्यादन्त्रवृद्धिः सोऽसाध्यो वातवृद्धिसमाकृतिः’ ‘तैलमेरण्डजं पीत्वा बलासिद्धं पयोऽन्वितम् । आध्मानशूलोपचितामन्त्रवृद्धिं जयेन्नरः’ भावप्र०।
Wordnet
Sanskrit अन्त्रवृद्धिः
अन््रसम्बन्धी रोगविशेषः।
"अन्त्रवृद्धेः कारणात् सः चलनसमये पीडाम् अनुभवति।"
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
शब्दकल्पद्रुमः
Sanskritअन्त्रवृद्धिः, (अन्त्रजन्या वृद्धिः, शाक-पार्थिवादित्वात् समासः मध्यपदलोपश्च ।) रोग-विशेषः । तन्निदानादि यथा, --“वातकोपिभिराहारैः शीततोयावगाहनैः ।धारणे रणभाराध्वविषमाङ्गप्रवर्त्तनैः ॥
क्षोभणैः क्षोभितान्यैश्च क्षुद्रान्तावयवं यदा ।पवनो द्विगुणीकृत्य स्वनिवेशादधो नयेत् ॥
कुर्य्याद्वंक्षणसन्धिस्थो ग्रन्थ्याभं श्वयथुं तदा” ।धारणं उपस्थितस्य वेगस्य । ईरणं अनुपस्थितस्यवेगस्य प्रेरणं ।“विषमाङ्गप्रवर्त्तनं वक्रत्वेनाङ्गमोटनं” ।अन्यानि क्षोभणानि च बलवद्विग्रहकठोरधनुरा-कर्षणादीनि । तैः क्षोभितः संदूष्य सञ्चालितःपवनः यदा क्षुद्रान्त्रावयवं द्विगुणीकृत्य स्वनिवेशा-दधो नयेत् । तदा वंक्षणसन्धिस्थः सन् वंक्षण-सन्धौ ग्रन्थिरूपं श्वयथुं कुर्य्यात् इत्यर्थः ॥
* ॥
उपेक्षिताया अन्त्रवृद्धेरवस्थामाह ।“उपेक्षमाणस्य मरुद्विवृद्धि-माध्मानरुक् स्तम्भवतीञ्च कुर्य्यात् ।स पीडितोऽन्तः स्वनवान् प्रयातिप्रध्मापयन्नेति पुनश्च मुक्तः ॥
उपेक्षमाणस्य वृद्धिमित्यर्थः । मरुद्वृद्धिं मुष्क-वृद्धिं । आध्मानरुक् स्तम्भवतीं कुर्य्यात् । तत्रा-ध्मानमुदरे रुक् वृद्धयोर्मुष्कयोः स्तम्भो गात्रे तद्-युक्तां कुर्य्यात् इत्यर्थः । भोजोऽप्याह ।“अन्त्रं द्विगुणमादाय वातो नयति वंक्षणं ।वंक्षणात्तद्रुजा युक्तं फलकोष्यां प्रपद्यते” ॥
स मुष्कवृद्धिः । अन्तः उदरे प्रध्मापयन् आग-मनमार्गमुच्छूनं कुर्व्वन् एति प्रयाति ॥
* ॥
अ-साध्यमाह ।“यश्चान्त्रावयवश्लिष्टान्मुष्कयोर्व्वातसञ्चयात् ।स्यादन्त्रवृद्धिः सोऽसाध्यो वातवृद्धिसमाकृतिः” ॥
स कीदृक् स्यादित्याकाङ्क्षायामाह । वातवृद्धि-समाकृतिः ॥
* ॥
सामीप्यादत्रैव ब्रध्नमाह ।“अत्यभिष्यन्दिगुर्व्वन्नशुष्कपूत्यामिषाशनात् ।करोति ग्रन्थिवच्छोथं दोषो वंक्षणसन्धिषु ॥
ज्वरशूलाङ्गसादाढ्यं तं ब्रध्नमिति निर्दिशेत्” ॥
* ॥
अथ वृद्धेश्चिकित्सा ।“वृद्धावत्यासनं मार्गमुपवासं गुरूणि च ।वेगाघातं पृष्ठयानं व्यायामं मैथुनं त्यजेत् ॥
वातवृद्धौ पिबेत् स्निग्धं यथाप्राप्तं विरेचनं ।सक्षीरं वा पिबेत् तैलं मासमेरण्डसम्भवं ॥
गुग्गुल्वेरण्डजं तैलं गोमूत्रेण पिबेन्नरः ।वातवृद्धिं जयत्याशु चिरकालानुबन्धिनीं ॥
पित्तग्रन्थिक्रमेणैनं पित्तवृद्धिमुपाचरेत् ।जलौकाभिर्हरेद्रक्तं वृद्धौ पित्तसमुद्भवे ॥
चन्दनं मधुकं पद्ममुशीरं नीलमुत्पलं ॥
क्षीरपिष्टप्रलेपेन दाहशोथरुजापहं ॥
त्रिकटुः त्रिफलाक्वाथं सक्षारं लवणं पिबेत् ।विरेचनमिदं श्रेष्ठं कफवृद्धिविनाशनं ॥
लेपनं कटुतीक्ष्णोष्णं स्वेदनं रूक्षमेव च ।परिषेकोपनाहौ च सर्व्वमुष्णमिहेष्यते ॥
मुहुर्मुहुर्जलौकाभिः शोणितं रक्तजे हरेत् ।पिबेद्विरेचनं वापि शर्कराक्षौद्रसंयुतं ॥
शीतमालेपनं सर्व्वं सर्व्वं पित्तहरं तथा ।पित्तवृद्धिक्रमं कुर्य्यादामे पक्वे च रक्तजे ॥
स्वेदोमेदः समुत्थे तु लेपयेत् सुरसादिना ।शिरो विरेचनद्रव्यैः सुखोष्णैर्मूत्रसंयुतैः ॥
संसेद्य मूत्रप्रभवं वस्त्रपट्टेन वेष्टयेत् ।सीवन्याः पार्श्वतोऽधस्तात् विध्यद्व्रीहिमुखेन वै ॥
मुष्कशोथमगच्छन्त्यामन्त्रवृद्धौ विचक्षणः” ।व्रीहिमुखेन शस्त्रविशेषेण । अगच्छन्त्यां अस्र-वत्यां ॥
“तैलमेरण्डजं पीत्वा बलासिद्धं पयोन्वित ।आध्मानशूलोपचितामन्त्रवृद्धिं जयेन्नरः ॥
रास्नायष्ट्यमृतैरण्डवलारग्वधगोक्षुरैः ।पटोलेन वृषेणापि विधिना विहितं मृतं ॥
रुवुतैलेन संयुक्तमन्त्रवृद्धिं व्यपोहति” ।रास्नादिक्वाथः ॥
* ॥
“गन्धर्व्वहस्ततैलेन वृषेणापि युतं पिबेत् ।विशालामूलजं चूणं वृद्धिं हन्यान्न संशयः” ॥
विशाला इन्द्रवारुणी ॥
* ॥
“वचासर्षपकल्केन प्रलेपः शोथनाशनः ।शिग्रुत्वक्सर्षपैः पिष्टैः शोथश्लेष्मानिलापहः ॥
शुद्धसूतं द्विधागन्धं मृतान्येतानि योजयेत् ।लोहं रङ्गं तथा ताम्रं कांस्यञ्चाथ विशोधितं ।तालकं तुत्थकं वापि तथा शङ्खं वराटकं ॥
त्रिकटु त्रिफला चव्यं विडङ्गं वृद्धदारकं ॥
कर्च्चूरं मागधीमूलं पाठां सहवुषां वचां ।एलावीजं देवकाष्ठं तथा लवणपञ्चकं ॥
एलादिसमभागानि चूर्णयेदथ कारयेत् ।कषायेण हरीतक्या वटिकां टङ्कसम्मितां ॥
एकां तां वटिकां यस्तु निगिलेद्वारिणा सह ।अण्डवृद्धिरसाध्योऽपि तस्य नश्यति सत्वरं” ॥
वृद्धिवाधिकावटी ॥
* ॥
अथ ब्रध्नस्य चिकित्सा ।“भृष्टश्चैरण्डतैलेन सम्यक् कल्कोऽभयाभवः ।कृष्णासैन्धवसंयुक्तो ब्रध्नरोगहरः परः ॥
अजाजीहवुषाकुष्ठं गोमेदवदरान्वितं ।काञ्जिकेन तु संपिष्टं तल्लेपो ब्रध्नजित् परः” ॥
गोमेदं पत्रं । तथा च निर्घण्टौ धन्वन्तरिः ।“पत्रं हलाह्वयं रामं गोमेदं वसनाह्वयं” ।इतिवृद्धिब्रध्नधिकारः । इति भावप्रकाशः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
