अन्त्येष्टिः (antyeSTiH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte Hindi
Hindiअन्त्येष्टिः
अन्त्य-इष्टिः -
अन्त्येष्टि संस्कार की आहुतियाँ या और्ध्वदैहिक संस्कार
E Bharati Sampat
Sanskrit(स्त्री) अन्त्या अन्ते भवा इष्टिः । अन्तिमसंस्कारः शवदाहादिरूपः, साग्निकस्य मृतस्य देहसंस्कारकः इष्टिभेदः। ‘पतितानां न दाहः स्यान्नान्त्येष्टिर्नास्थिसञ्चयः’ उशनःस्मृतिः७.२।
Wordnet
Sanskrit अन्त्येष्टिः, अन्त्यकर्म
चरमसंस्कारः।
"अन्त्येष्टिः इति धार्मिकसंस्कारः।"
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
शब्दकल्पद्रुमः
Sanskritअन्त्येष्टिः, (अन्त्या अन्ते भवा इष्टिः, कर्म्म-धारयः ।) चरमसंस्कारः । स तु शवदाहादि-रूपः । यथा, --“सपिण्डादिभिदाशौचसंक्षेपोऽन्त्येष्टिपद्धतिः” ।इति शुद्धितत्त्वप्रतिज्ञायां स्मार्त्तभट्टाचार्य्यः ॥
तत्-प्रयोगो दाहशब्दे द्रष्टव्यः ॥
तदनन्तरं पूरकपिण्ड-प्रमाणं पिण्डशब्दे द्रष्टव्यं ॥
तस्य प्रयोगोऽत्रलिख्यते । ततः पिण्डदानं तत्र क्रमः । तण्डुल-प्रसृतिद्वयं द्विः प्रक्षाल्य ऐशान्यां दिशि सुखिन्नंपचेत् । ततः पवित्रपाणिः प्राचीनावीती पातित-वामजानुर्दक्षिणामुखो हस्तप्रमाणां चतुरङ्गुलो-च्छ्रायां दक्षिणप्लवां पिण्डिकां कृत्वा तदुपरिरेखां कृत्वा दर्भानास्तीर्य्य तिलान् प्रक्षिप्य ।ओँ अमुकगोत्रप्रेतामुकदेवशर्म्मन्नवनेनिक्ष्व इत्या-स्तीर्णकुशोपरि सतिलजलेनावनेजयेत् । तत-स्तिलमधुघृतादिमिश्रं तप्तपिण्डं गृहीत्वा अद्या-मुकगोत्रस्य प्रेतस्यामुकदेवशर्म्मणः एतत् प्रथम-पिण्डं पूरकं इत्यवने जनस्थाने दद्यात् । ततःपिण्डपात्रक्षालनजलेन पुनरवनेजयेत् । ओँ अमुक-गोत्रप्रेतामुकदेवशर्म्मन्नेतत्ते ऊर्णातन्तुमयं वासः ।ततः आममृण्मयपात्रे जलाञ्जलिं पिण्डसमीपेस्थापयेत् । गन्धं माल्यञ्च यथाशक्ति दद्यात् ।वाष्पपर्य्यन्तं पिण्डं पश्यंस्तिष्ठेत् । ततः पिण्डा-दिकं जले क्षिपेत् । कालेऽप्यकृतचूडोपनयनानांअनूढकन्यानाञ्च कुशास्तरणं विनेति शेषः । एवंकृतचूडानामुपनयनकालात् प्राक् दर्भोपरि पिण्ड-दानं । उपनयनकाले आगते त्वकृतोपनयनानांदर्मोपरि पिण्डदानं । एवं अष्टवर्षविवाहकालेआगते ऊढस्त्रीणां दर्भोपरि पिण्डदानं । रात्रा-वाचम्य दक्षिणामुखः प्राचीनावीती पातितवाम-जानुः त्रिकाष्ठिकोपरि मृण्मयपात्रे उदकं तथापात्रान्तरे क्षीरं निधाय प्रेतात्र स्नाहि पिबचेदं क्षीरमिति ब्रूयात् । तदेकरात्रमावश्यकंदशरात्रं फलभूयस्त्वार्थमिति । द्वितीयपिण्डादिषुद्वितीयं पिण्डं पूरकं इत्यादिविशेषः । द्वितीय-पिण्डे मृण्मयपात्रद्वये जलाञ्जलिद्वयं । तृतीयादि-पिण्डे पात्रादिवृद्धिः । येन पञ्चपञ्चाशत् पा-त्राण्यञ्जलयश्च तावन्ति । त्र्यहाशौचप्रथमदिनेपिण्डानां त्रयं । द्वितीयदिने चतुष्टयं । तृतीयेत्रयं । प्रथममेकं द्वितीये चतुष्टयं । तृतीये पञ्चमंवा कल्पः । चतुरहाशौचे प्रथमचतुर्थयोर्द्वौ द्वौ ।द्वितीयतृतीययोस्त्रयस्त्रयः । पञ्चाहाशौचे तु प्र-थमपञ्चमदिनयोरेकैकशः पिण्डः । द्वितीयचतु-र्थयोर्द्वौ द्वौ । तृतीये चत्वारः । षडहाशौचे द्वि-तीयचतुर्थदिनयोस्त्रयस्त्रयः । शेषेष्वेकैकः । सप्ता-हाशौचे तृतीयचतुर्थपञ्चमदिनेषु द्वौ द्वौ । शेषे-ष्वेकैकः । अष्टाहाशौचे चतुर्थपञ्चमदिनयोर्द्वौद्वौ । शेषेष्वेकैकः । नवाहाशौचे तु पञ्चमदिनेद्वौ । शेषेष्वेकैकः । पक्षिणीद्व्यहाशौचयोस्तआद्यद्वितीयदिनयोः पञ्च पञ्च पिण्डाः । द्वादशा-हाद्यशौचे नवदिनेषु नवपिण्डाः । शेषदिने दशमः ।सद्यः शौचैकाहयोरेकाह एव दशपिण्डाः । अशौ-चान्तमध्ये पिण्डो देयः रात्रावपि ॥
* ॥
गङ्गाम्भस्यस्थिप्रक्षेपप्रयोगस्तु । ततः स्नात्वा-चम्य उदङ्मुखः कुशत्रयजलान्यादाय ओँ तत्सदित्यु-च्चार्य्य अद्यामुकेत्यादि अमुकस्य एतदस्थिसम-संख्यकवर्षसहस्रावच्छिन्नस्वर्गाधिकरणकमहीय-मानत्वकामोऽमुकस्यैतान्यस्थिखण्डानि गङ्गायां प्र-क्षिपामीति सङ्कल्प्यापसव्यं कृत्वास्थीनि पञ्चगव्येनसिक्त्वा हिरण्यमध्याज्यतिलैः संयोज्य मृत्तिकापुटेस्थापयित्वा दक्षिणहस्तेन तत्पुटकमादाय दक्षिणांदिशं पश्यन् ओँ नमोऽस्तु धर्म्मराजायेति वदन्जलं प्रविश्य स मे प्रीतो भवत्वित्युक्त्वास्थि प्रक्षि-पेत् । ततो मज्जनं कृत्वोत्थाय सूर्य्यं दृष्ट्वा दक्षि-णामुत्सृजेत् । इति शुद्धितत्त्वं ॥
* ॥
किञ्च शातातपः ।“जलमेकाहमाकाशे स्थाप्यं क्षीरञ्च मृण्मये” ।पारस्करः । मृण्मये तां रात्रिं क्षीरोदके विहा-यसि निदध्युः । प्रेतात्र स्नाहीत्युदकं पिब चेदंक्षीरं । इदं रात्राविति गौडाः । गारुडे तु ।“अपक्वे मृण्मये पात्रे दुग्धं दद्यात् दिनत्रयम्” ।इत्युक्तं । हेमाद्रौ पाद्मे तु दशाहमुक्तं ।“तस्मान्निधेयमाकाशे दशरात्रं पयो जलं ।सर्व्वतापोपशान्त्यर्थमध्वश्रमविनाशनं” ॥
देवजानीये कारिकायां ।“तत्र प्रेतोपकृतये दशरात्रमखण्डितं ।कुर्य्यात् प्रदीपं तैलेन वारिपात्रञ्च मार्त्तिकं ॥
भोज्यात् भोजनकाले तु भक्तमुष्टिञ्च निर्व्वपेत् ।नाभगोत्रेण सम्बुध्य धरित्र्यां पितृयज्ञवत्” ॥
इति निर्णयसिन्धौ ५ परिच्छेदः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
