| YouTube Channel

अन्त्यावसायी (antyAvasAyI)

 
Apte Hindi
Hindi
अन्त्यावसायी
पुं*
अन्त्य-अवसायिन् -
"अधम जाति का पुरुष, निम्नांकित जाति इसी श्रेणी से संबंध रखने वाले समझे जाते हैं "
E Bharati Sampat
Sanskrit
(पुं) (अन्त्यावसायिन्)। अन्त्यः सन् अवस्यति अन्त्य+ अव+षो(ऽन्तकर्मणि)+णिनिः १.चाण्डालादिसप्तजातयः। ‘चाण्डालः श्वपचः क्षत्ता सूतो वैदेहकस्तथा मागधायोगवौ चैव सप्तैतेऽन्त्यवसायिनः’ अङ्गिराः। ‘अन्त्यावसायिनामन्नमश्नीयाद्यस्तु कामतः’ अङ्गिरःस्मृतिः। २.निषादस्त्रियां चाण्डालात् जातः(मुरदाफरास) ‘निषादस्त्री तु चाण्डालात् पुत्रमन्त्यावसायिनम् श्मशानगोचरं सूते बाह्यानामपि गर्हितम्’ मनुः१०.३९। (स्त्री) अन्त्यावसायिनी अन्त्यावसायिन्+ङीप् ‘ऋन्नेभ्यो ङीप्’ ४.१.५।
शब्दकल्पद्रुमः
Sanskrit
अन्त्यावसायी, [न्]
पुं,
(अन्त्यः सन् अवस्यति, अन्त्य + अव + सो + णिनि उपपदसमासः ।)चाण्डालादिसप्तजातयः यथा, --“चाण्डालः श्वपचः क्षत्ता सूतो वैदेहकस्तथा ।मागधायोगवौ चैव सप्तैतेऽन्त्यावसायिनः”
इति अङ्गिराः
(निषादस्त्रियां चण्डालजातोमुद्दाफरास इति ख्यातः संकीर्णजातिविशेषः ।“निषादस्त्री तु चण्डालात् पुत्रमन्त्यावसायिनं ।श्मशानगोचरं सूते वाह्यानामपि गर्हितम्”
इति मनुः ।)