| YouTube Channel

अन्त्यः (antyaH)

 
Apte Hindi
Hindi
अन्त्यः
पुं*
- अन्त+यत्
अधम जति का मनुष्य
अन्त्यः
पुं*
- अन्त+यत्
शब्द का अंतिम अक्षर
अन्त्यः
पुं*
- अन्त+यत्
अंतिम चांद्र मास अर्थात् फाल्गुन
अन्त्यः
पुं*
- अन्त+यत्
म्लेच्छ
E Bharati Sampat
Sanskrit
(पुं) अन्ते भवः। अन्त+यत् ‘अचो यत्’ ४.३.५४। १.चाण्डालः। ‘अन्त्यादपि परं धर्मं स्त्रीरत्नं दुष्कुलादपि’ मनुः२.२३८। २.म्लेञ्छः। ‘चण्डालान्त्यस्त्रियो गत्वा भुक्त्वा प्रतिगृह्य पतत्यज्ञानतो विप्रो ज्ञानात्साम्यं तु गच्छति’ मनुः११.१७५। ३.मुस्ता (वि) २.अन्तोद्भूतः, शेषोत्पन्नः। ‘असह्यपीडं भगवन्नृणमन्त्यमवेहि मे’ रघुः२.७१। ३.जघन्यः, अधमः। ‘अन्त्यस्तु पुंसि मुस्तायामन्तोद्भूतेऽधमे त्रिषु’ मेदिनी (न) ४.सहस्रलक्षकोटिः, परार्धशतभागः। ‘जलधिश्चान्त्यं मध्यं परार्धमिति दशगुणोत्तरा सङ्ख्या’ लीला०। ५.सर्वस्य वामस्थिताङ्कः। ‘स्थाप्योऽत्यवर्गो द्विगुणान्त्यनिघ्नः’ लीला०। ६.चरजीवया युतोना त्रिज्या ‘एवं त्रिज्या चरजीवया युतोनान्त्या स्यात्’ सि०शि०। ७.द्वादशलग्नम् ‘षष्ठेऽष्टमेऽन्त्ये भुवि चेन्विहेशः’ नील०ता०।
शब्दकल्पद्रुमः
Sanskrit
अन्त्यः, त्रि, (अन्ते भवः, अन्त + यत् ।) अन्ते भवः ।शेषोत्पन्नः अधमः जघन्यः इति मेदिनी
(अन्तिमः चरमः शेषः ।“असह्यपीडं भगवन् ऋणमन्त्यमवेहि मे” ।इति रघुवंशे ।)
अन्त्यः,
पुं,
(अन्ते भवः अन्त + यत् ।) मुस्ता इतिमेदिनी
मुता घास इति भाषा म्लेच्छः इतिप्रायश्चित्ततत्त्वं