| YouTube Channel

अन्तिकः (antikaH)

 
E Bharati Sampat
Sanskrit
(वि) अन्तः अस्य अस्ति अन्त+ठन् ‘अत इनिठनौ’ ५.२.११५ समीपस्थः। ‘सिंहासनान्तिकचरेण सहोपसर्पन्’ मालवि० १.२१ ‘रहस्याख्यायीव स्वनसि मृदु कर्णान्तिकचरः’ अभि० २.२१ (न) समीपम्, अन्तिका (स्त्री) १.ज्येष्ठा भगिनी - नाट्यम् २.चुल्ली ३. शातलौशधिः। ‘अन्तिकं निकटे वाच्यलिङ्गं स्त्री शातलौषधौ चुल्ल्यां ज्येष्ठभगिन्यां नाट्योक्तौ कीर्त्यतेऽन्तिका’ मेदिनी ४.पर्यन्तव्यापकः। ‘केशान्तिको ब्राह्मणस्य दण्डः कार्यः प्रमाणतः। ललाटसम्मितो राज्ञः स्यात्तु नासान्तिको विशः’ मनुः २.४६।
(वि) अन्तः अस्य अस्ति अन्त+ठन् ‘अत इनि०’ ५.२.११५। १.समीपस्थः। २.पर्यन्तव्यापकः। ‘केशान्तिको ब्राह्मणस्य दण्डः कार्यः प्रमाणतः। ललाटसम्मितो राज्ञः स्यात्तु नासान्तिको विशः’ मनुः२.४६। (न) ३.निकटम्, समीपम्, सामीप्यम् ‘अन्तिकं निकटे वाच्यलिङ्गम्’ मेदिनी ‘ननु मां प्रापय पत्युरन्तिकम्’ कुमा०४.३२।