| YouTube Channel

अन्तर्यामी (antaryAmI)

 
E Bharati Sampat
Sanskrit
(पुं) (अन्तर्यामिन्) अन्तर्मध्ये अनुप्रविश्य यमयति स्व स्व कर्मणि इन्द्रियादीनि व्यापारयति अन्तर्+यम(उपरमे)+णिच्+णिनिः। ‘सुप्यजातौ णिनिस्ताच्छील्ये’ ३.२.७८ १.अन्तःकरणनियामकः, ईश्वरः, जीवः। ‘जीवः पुरषपुद्गलौ अन्तर्यामीश्वरः’ त्रिका०। ‘अन्तराविश्य भूतानि यो बिभर्त्यात्मकेतुभिः। अन्तर्यामीश्वरः साक्षात् पातु नो यद्वशे स्फुटम्’ (वि) २.मनोगतज्ञः।
(पुं) (अन्तर्यामिन्) अन्तः मध्ये अनुप्रविश्य यमयति स्वस्वकर्मणि इन्द्रियादीनि जीवं वा व्यापारयति अन्तर्+यम(उपरमे)+णिच्+णिनिः। ‘सुप्यजातौ णिनिः०’ ३.२.७८। १.अन्तःकरणनियामकः ईश्वरः, जीवः। ‘जीवः पुरषपुद्गलौ अन्तर्यामीश्वरः’ त्रिका०। ‘अन्तराविश्य भूतानि यो बिभर्त्यात्मकेतुभिः। अन्तर्यामीश्वरः साक्षात्’ २.वायुः। सर्वप्राणिषु अध्यात्मवायुरूपेण स्थितः। (वि) मनोगतज्ञः, अन्तर्गतवस्तुज्ञाता
शब्दकल्पद्रुमः
Sanskrit
अन्तर्यामी, [न्]
पुं,
(अन्तर्मध्ये यमयति स्वस्व-कार्य्येषु इन्द्रियादीनि नियोजयति, अन्तर् +यम् + णिच् + उपपदसमासः ।) अन्तःकरण-नियामकः तत्पर्य्यायः आत्मा जीवः पुरुषः ४पुद्गलः ईश्वरः इति त्रिकाण्डशेषः
विशु-द्धसत्वप्रधानाज्ञानोपहितचैतन्यं इति वेदान्त-सारः
मनोगतज्ञे त्रि
(“अन्तराविश्य भूतानि योबिभर्त्त्यात्मकेतुभिः ।अन्तर्यामीश्वरः साक्षात् पातु नो यद्वशे स्फुटम्”