| YouTube Channel

अन्तर्याग (antaryAga)

 
Monier Williams Cologne
English
अन्तर्—याग
m.
inner sacrifice,
Cat.
Shabdartha Kaustubha
Kannada
अन्तर्याग
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ತಂತ್ರೋಕ್ತವಾದ ಮಾನಸ ಪೂಜೆ
व्युत्पत्तिः - > अन्तः मनसा कृतो यागः
Aufrecht Catalogus Catalogorum
English
अन्तर्याग tantr. B. 4, 252.
वाचस्पत्यम्
Sanskrit
अन्तर्याग
पु०
अन्तरन्तःकरणेन मनसा कल्पितोपचारैर्यागःपूजा होमश्च तन्त्रोक्ते मानसोपचारैः पूजने, होमभेदे ।“अर्च्चयन् विषयैः पुष्पैस्तत्क्षणात् तन्मयो भवेत् न्यासै-स्तन्मयताबुद्धिः सोहंभावेन पूजयेत्” तन्मयेति तदेकत्व-ज्ञानं सोहमिति, “मन्त्राक्षराणि तच्छक्तौ प्रोतानि परिभाव-येत् तामेव परमव्योम्नि परमानन्दवृंहिते दर्शयत्यात्मसद्भावंपूजा होमादिभिर्विनेति” विषयपुष्पाणि यथा अमा-यामनहङ्कारमरागमगदं तथा अमोहकमदम्भञ्च अ-निन्दाऽक्षोभकौ तथा अमात्सर्य्यमलोभञ्च दशपुष्पंविदुर्बुधाः अहिंसा परमं पुष्पं पुष्पमिन्द्रियनिग्रहः ।दया पुष्पंक्षमा पुष्पं ज्ञानं पुष्पञ्च पञ्चमम् इत्यष्टसप्तभिः१५ पुष्पैः पूजयेत् परदेवताम्” अथ होमः “आत्मा-नमपरिच्छिन्नं विभाव्यात्मानमन्तरा परमात्मज्ञानमेकस्व-रूपं संविभाव्य चतुरस्रं तु चित्कुण्डमानन्दमेखला-युतम् अर्द्धमात्राकृतिर्योनिस्तया चैव विभूषितम् नाभौध्यात्वा तन्मयस्थज्ञानाग्नौ जुहुयात् यथा मूलान्ते नाभि-चैतन्यरूपाग्नौ हविषा स्रुचा ज्ञानप्रदीपिते नित्यमक्षवृत्ती-र्जुहोम्यहम्” (स्वाहा इति प्रथमाहुतिः, मूलान्ते) घर्म्मा-धर्म्महविर्दीप्ते आत्माग्नौ मनसा स्रुचा सुषुम्णावर्त्मनानित्यमक्षवृत्तीर्जुहीम्महम्” (स्वाहेति द्वितीयाहुतिः, मूलान्ते) “प्रकाशाकाशहस्ताभ्यां अवलम्बन्मनःस्रुचा ।धर्म्माधर्म्मकलास्नेहपूर्ण्णमग्नौजुहोम्यहम्” (स्वाहेति तृती-याहुतिं जुहुयात् ततो मूलान्ते) “अन्तर्निरन्तर-निरिन्धनएधमाने मायान्धकारपरिपन्थिनि संविदग्नौ ।कस्मिंश्चिदद्भुतमरीचिविकाशमूमौ विश्वं जुहोमि वसुघादि-शिवासनान्तम् इत्यन्तर्यजनं कृत्वा साक्षाद्ब्रह्ममयो भवेत् ।न तस्य पापपुण्यानि जीवन्मुक्तोभवेद्ध्रुवम्” “अयमन्त-र्यागोज्ञानिनामेव अथान्तःपञ्चमकारयजनप्रकारः
तदुक्तं कुलार्ण्णवे अन्तर्यजने” “सुरा शक्तिः शिवोमांसंतद्भोक्ता भैरवःस्वयम् तयोरैक्यसमुत्पन्ने आनन्दोमोक्षउच्यते आनन्दं ब्रह्मणोरूपं तच्च हव्ये व्यवस्थितम् ।तस्याभिव्यञ्जकं द्रव्यं यीगिभिस्तेन पीयते लिङ्गत्रय-विशेषज्ञः षट्चक्रपद्मभेदतः पीठस्थानानि चागम्य महापद्मवनं व्रजेत् आमूलाधारमाब्रह्मरन्धं गत्वा पुनः पुनः ।चिच्चन्द्रकुण्डलीशक्तिसामरम्यमहोदयः व्योमपङ्कजनि-ष्यन्दसुधापानरतो नरः मधुपानमिदं देवि! चेतरन्मद्य-पानकम् पुण्यापुण्यं पशुं हत्वा ज्ञानखड्गेन योगवित् ।परे लयं नयेच्चित्तं पलाशीति निगद्यते मानसादिन्द्रिय-गणं संयम्यात्मनि योजयेत् मांसाशी भवेद्देवि! इतरेप्राणिघातकाः शिवशक्त्यात्ममिथुनसंयोगानन्दनिर्भराः ।मुक्तास्ते सैथुनं तत्स्यादितरे स्त्रीनिषेवकाः” इति त० सा०“अन्तःपूजां विधायैव वाह्यपूजां समाचरेदिति” तन्त्रम्