| YouTube Channel

अन्तर्मुखः (antarmukhaH)

 
E Bharati Sampat
Sanskrit
(वि) अन्तः अभ्यन्तरे मुखं प्रवेशद्वारं यस्य बाह्यव्यापारपरिहारेण परमात्मनि ध्याननिरतः। ‘अन्तर्मुखं चित्तामिवान्वाविन्दत्’ याद० १.८७ (स्त्री) अन्तर्मुखी (अ) मुखस्य मध्यम् - अव्ययी मुखस्य मध्ये
(वि) अन्तः अभ्यन्तरे मुखं प्रवेशद्वारं यस्य १.बाह्यवस्तुपरिहारेण परमात्मविषयकतया प्रवेशयुक्तः चित्तादिः। २.बाह्यव्यापारपरिहारेण परमात्मनि ध्याननिरतः। ‘अन्तर्मुखं चित्तमिवान्वविन्दत्’ याद०१.८७। ३.सुषुप्तौ आनन्दानुभवकार प्राज्ञाख्यः जीवभेदः। (न) अन्तः अभ्यन्तरे मुखं यस्य ४.व्रणस्रावणसाधनशस्त्रभेदः। ‘शरारीमुखान्तर्मुखत्रिकूर्चकानि विस्रावणे’ सुश्रुतः। (स्त्री) अन्तर्मुखी (अ) मुखस्य मध्यम् अव्ययी०। ५.मुखस्य मध्ये