| YouTube Channel

अन्तर्मातृकान्यासः (antarmAtRkAnyAsaH)

 
E Bharati Sampat
Sanskrit
(पुं) अन्तःस्थायाः मातृकायाः न्यासः उच्चारणपूर्वकं तत्तत्स्थानेषु न्यासः। अन्तःस्थमातृकावर्णानां स्मरणपूर्वकं तत्तत्स्थानेषु न्यासः। ‘द्व्यष्टपत्राम्बुजे कण्ठे स्वरान् षोडश विन्यसेत् द्वादशच्छदहृत्पद्मे कादीन् द्वादश विन्यसेत् दशपत्राम्बुजे नाभौ ड्कारादीन् न्यसेद्दश षट्पत्रमध्ये लिङ्गस्थे वकारादीन् न्यसेच्च षट् आधारे चतुरो वर्णान् न्यसेद्वादीन् चतुर्दले हक्ष्तौ भ्रूमध्यगे पद्मे द्विदले विन्यसेत् प्रिये तन्मध्ये परबिन्दुं सृष्टिस्थितिलयात्मकम् एवं समाहितमना ध्यायेन्न्यासो यमान्तरः’ तन्त्रसा०
(पुं) अन्तःस्थायाः मातृकायाः उच्चारणपूर्वकं तत्तत्स्थानेषु न्यासः। अन्तःस्थमातृकावर्णानां स्मरणपूर्वकं तत्तत्स्थानेषु न्यासः। ‘द्व्यष्टपत्राम्बुजे कण्ठे स्वरान् षोडश विन्यसेत् द्वादशच्छदहृत्पद्मे कादीन् द्वादश विन्यसेत् दशपत्राम्बुजे नाभौ डकारादीन् न्यसेद्दश षट्पत्रमध्ये लिङ्गस्थे वकारादीन् न्यसेच्च षट् आधारे चतुरो वर्णान् न्यसेद्वादीन् चतुर्दले हक्षौ भ्रूमध्यगे पद्मे द्विदले विन्यसेत् प्रिये तन्मध्ये परबिन्दुं सृष्टिस्थितिलयात्मकम् एवं समाहितमना ध्यायेन्न्यासोयमान्तरः’ तन्त्रसा०।