| YouTube Channel

अन्तर्मातृकान्यास (antarmAtRkAnyAsa)

 
Shabdartha Kaustubha
Kannada
अन्तर्मातृकान्यास
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ದೇಹದೊಳಗಿನ ಪದ್ಮಗಳಲ್ಲಿ ಅಕಾರಾದಿ ವರ್ಣಗಳ ಉಚ್ಚಾರಣ ಪೂರ್ವಕ ಆಯಾ ಸ್ಥಾನಗಳಲ್ಲಿ ಮಾಡುವ ನ್ಯಾಸ
विस्तारः - > "द्यष्टपत्राम्बुजे कण्ठे स्वरान् षोडश विन्यसेत् द्वादशच्छदहृत्पद्मे कादीन् द्वादश विन्यसेत् दशपत्राम्बुजे नाभौ डकारादीन्न्यसेद्दश षट्पत्रमध्ये लिङ्गस्ते बकारादीन् न्यसेच्च षट् आधारे चतुरो वर्णान् न्यसेद्वादीन् चतुर्दले हस्तौ भ्रूमध्यगे पद्मे द्विदले विन्यसेत् प्रिये तन्मध्ये परबिन्दुं सृष्टिस्थितिलयात्मकम् एवं समाहितमना ध्यानेन्न्यासोऽयमान्तरः ॥" - तन्त्रसा०
वाचस्पत्यम्
Sanskrit
अन्तर्मातृकान्यास
पु०
अन्तःस्थाया मातृकाया न्यासः उच्चा-रणपूर्व्वकं तत्तत्स्थानेषु न्यासः अन्तस्थमातृकावर्णानांस्मरणपूर्व्वकं तत्तत्स्थानेषु न्यासे यथा “न्यासोऽय-मान्तर” इत्युपक्रम्य “द्व्यष्टपत्राम्बुजे कण्ठे स्वरान् षोडशविन्यसेत् द्वादशच्छदहृत्पद्मे कादीन् द्वादश विन्यसेत् ।दशपत्राम्बुजे नाभौ डकारादीन्न्यसेद्दश षट्पत्रमध्येलिङ्गस्थे बकारादीन्न्यसेच्च षट आधारे चतुरोवर्णान्न्यसेद्वादीन् चतुर्द्दले हक्षौ भ्रूमध्यगे पद्मे द्विदले विन्यसेत्प्रिये! तन्मध्ये परविन्दुञ्च सृष्टिस्थितिलयात्मकम् एवंसमाहितमना ध्यायेन्न्यासोयमान्तरः” इति तन्त्रसारः