| YouTube Channel

अन्तर्भूतः (antarbhUtaH)

 
E Bharati Sampat
Sanskrit
(वि) अन्तः मध्ये भूतः। १.मध्यस्थितः। २.अन्तर्गतः। ‘कालभावाध्वदेशानामन्तर्भूतक्रियान्तरैः। सर्वैरकर्मकैर्यागे कर्मत्वमुपजायते’ वाक्यप०। ३.तिरोहितः। ‘स एव भगवान् विष्णुरन्तर्भूतः सनातनः’ प.पु० माधयाहात्म्यम्
(वि) अन्तः मध्ये भूतः। १.मध्यस्थितः। २.अन्तर्गतः। ‘कालभावाध्वदेशानामन्तर्भूतक्रियान्तरैः। सर्वैरकर्मकैर्योगे कर्मत्वमुपजायते’ वाक्यप०। ३.तिरोहितः। ‘स एव भगवान् विष्णुरन्तर्भूतः सनातनः’ पद्मपु०।
शब्दकल्पद्रुमः
Sanskrit
अन्तर्भूतः, त्रि, (अन्तर्मध्ये भूतः स्थितः, अन्तर् +भू + कर्त्तरि क्तः ।) गुणीभूतः अन्तःस्थः अन्त-रस्थः अन्तर्गतः यथा, --“स एव भगवान् विष्णुरन्तर्भूतः सनातनः” ।इति पद्मपुराणे माघमाहात्म्यं