| YouTube Channel

अन्तर्द्धानं (antarddhAnaM)

 
शब्दकल्पद्रुमः
Sanskrit
अन्तर्द्धानं,
क्ली,
(अन्तर्धानं, अन्तर् + धा +भावे ल्युट् ।) आच्छादनं इति शब्दरत्नावली
तत्पर्य्यायः अन्तर्द्धा व्यवधा अन्तर्द्धिः ४अपवारणं अपिधानं तिरोधानं पिधानं ८छदनं इत्यमरः
(“अन्तर्द्धानं स्मृतिः कान्तिर्दृष्टिः श्रोतज्ञता तथा”इति याज्ञवल्क्यः ।)