अन्तर्दशा (antardazA)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Spoken Sanskrit
English अन्तर्दशा antardazA intermediate period
Goldstucker
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Shabdartha Kaustubha
Kannadaअन्तर्दशा
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಜ್ಯೋತಿಃಶಾಸ್ತ್ರದಲ್ಲಿ ಹೇಳಿರುವ ಒಂದು ಗ್ರಹದ ಮಹಾದಶೆಯಲ್ಲಿ ಇತರ ಗ್ರಹಗಳು ಅಧಿಕಾರ ನಡೆಯಿಸಿ ಫಕೊಡುವ ಕಾಲ /ಭುಕ್ತಿ
व्युत्पत्तिः - > अन्तर्गता दशा अधिपत्यकालः
E Bharati Sampat
Sanskrit(नपु) अन्तर्गतं दहनम् । (प्रादितत्पु) अन्तर्ज्वलनम् । १. रोगकृतः देहाभ्यन्तर दाहः । (पु) अन्तः स्थः दहनः । २. उदराग्निः ।
(स्त्री) । अन्तर्गता दशा आधिपत्यकालः। महादशान्तर्गतः ग्रहाणां स्वाधिपत्ययुक्तः कालभेदः -ज्यो०।
वाचस्पत्यम्
Sanskritअन्तर्दशा स्त्री अन्तर्गता दशा आधिपत्यकालः । ज्योतिषोक्तेमहादशान्तर्गते ग्रहाणां स्वाधिपत्ययुक्तकालभेदे । दशा चनानाविधा ताश्च दशाशब्दे वक्ष्यन्ते । तत्राष्टोत्तरीयदशा-यामन्तर्दशाऽभिधीयते वङ्गे च तस्या एव प्रचलितत्वम् ।“षट्सूर्य्यस्य दशा ज्ञेयाः शशिनोदश पञ्च च । अष्टावङ्गा-रके ज्ञेया बुधे सप्तदश स्मृताः । शनैश्चरे दश प्रोक्तागुरोरेकोनविंशतिः । राहोर्द्वादश वर्षाणि भृगोरप्येक-विंशति” रित्युपक्रम्य सत्याचार्य्यः “कृत्तिकादित्रये सूर्य्यःसोमो रौद्रचतुष्टये । मघादित्रितये भौमो बुधो हस्त-चतुष्टये ॥
अनुराधात्रये सौरिर्गुरुःपूर्व्वाचतुष्टये ।धनिष्ठात्रितये राहुः शेषे शुक्रःप्रकीर्त्तितः ॥
सूर्य्योप-प्लवभौमार्किदशातिकष्टदा नृणाम् । गुरुज्ञचन्द्रशुक्राणांयथेप्सितफलप्रदा” ॥
अन्तर्दशाज्ञानं यथा । “स्वद-शाभिर्दशां हत्वा नवभिर्भागमाहरेत् । लब्धा मासास्तुतच्छेषं पूरयित्वा तु त्रिंशता ॥
अङ्कैर्हृत्वा दिनं लभ्यंतच्छेषे वष्टिपूरिते । नवभिश्च हृते लब्धा ज्ञेया दण्डा-स्तदन्तरे ॥
रवेः षड्वर्षमध्ये तु वेदा ४ मासा रवेर्निजाः ।चन्द्रस्य दश मासाश्च दिग्दिनं पञ्चमासकाः । कुजस्य, ज्ञस्य रुद्रास्तु मासा दिग्दिवसाः, शनेः । ऋतुमासाद्यु विंशश्चगुरोर्व्वर्षोद्युविंशतिः । राहोर्मासाष्टकं ज्ञेयं भृगोर्वर्षस्तुमासकौ एवं ग्रहाणामन्येषामूह्याश्चैवान्तरादयः । यद्ग्रह-स्यान्तरे यस्तु यत्संख्यकालमाप्तवान् । तत्संख्यं स्वान्तरेतस्मै स दद्यादिति निश्चयः । स्वान्तरे ग्रहणे स्वांशं स्वांशेनपूरयेत् सदा इति” ज्यो० त० । विंशोत्तरीये तु । आचंकुराजीशबुकेशुपूर्व्वा वह्न्यादितो भात्क्रमशस्त्रिवारम् । मानंरसाशानगदन्तिचन्द्रकलाङ्कचन्द्राद्रिरसाद्रिविंशा” इत्युक्तेःकृत्तिकादिक्रमेण रव्यादीनां त्रिवारं रसादिमिता वर्षामहादशा । यथा कृत्तिकायां जातौ रवेः षट्वर्षाः, रोहि-ण्यां जातौ चन्द्रस्य १० वर्षाः, मृगे, कुजस्य ७ वर्षाः, आर्द्रायां राहोः १८ वर्षाः, पुनर्वसौ जीवस्य१६ वर्षाः, पुष्ये जातौ शनेः १९ वर्षाः, अश्लेषायां बुधस्य१७ वर्षाः, मघायां केतोः ७ वर्षाः, पूर्व्वफाल्मुन्यांजातस्य शुक्रस्य २० वर्षाः, एवमुत्तरफाल्गन्यादिषु नवसुउत्तराषाढादिषु नवसु च रव्यादीनां यथाक्रमं षडादि-वर्षाः । तदन्तर्दशा तु “स्वदशाभिर्दशां हत्वा वसुभिर्भाग-माहरेदिति” विशेषः । ततश्च उभयोर्दशयोरनुपाते-नान्तर्दशामानमुन्नेयम् यथा यदि १०८ वर्षैः ६वर्षाः तदा ६ वर्षैः किमिति इत्यादिक्रमेण त्रैराशिकेनतत्तन्मानम् एवं १२० वर्षैः यदि ६ वर्षाः तदा ६ वर्षैःकिमित्यादिक्रमेण त्रैराशिकेन तत्तन्मानसिद्धिः । एवंयोगिन्यादिदशायामपि अन्तर्दशामानमुन्नेयम् ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
