| YouTube Channel

अन्तर्गडुः (antargaDuH)

 
E Bharati Sampat
Sanskrit
(वि) अन्तः अन्तःकरणे गतः। १.अन्तःकरणस्थम् ‘अन्तर्गतं प्राणभृतां हि वेद’ रघु० १.४३ २.देहस्थम् ३.मध्यस्थितः। ‘नभः प्रतिच्छन्दनिभेन नूनमन्तर्गतं व्यञ्जयति स्वाधाम्ना’ याद० १८.१०६
(वि) अन्तः मध्ये गडुः ग्रीवाप्रदेशजातगलमांसपिण्डमिव निरर्थकः। वृथा, निरर्थकः। ‘अन्तर्गडु निरर्थकम्’ वैज० ‘काव्यान्तर्गडुभूता या सा तु नेह प्रशस्यते’ सा०द०