| YouTube Channel

अन्तरीयं (antarIyaM)

 
शब्दकल्पद्रुमः
Sanskrit
अन्तरीयं,
क्ली,
(अन्तरस्य परिधानस्य इदं अन्तर्+ छः तस्य ईयः ।) अधोवस्त्रं परिधानवस्त्रं ।इत्यमरः
(“नाभौ धृतञ्च यद्वस्त्रं आच्छादयति जानुनी ।अन्तरीयं प्रशस्तं तत् अच्छिन्नमुभयोस्तयोः”
इत्येवं लक्षणं)