| YouTube Channel

अन्तरितः (antaritaH)

 
E Bharati Sampat
Sanskrit
(वि) अन्तः इतः। अन्तर्+इण्(गतौ)+क्तः। ‘गत्यर्था०’ ३.४.७२। १.अन्तर्गतः २.अन्तरं व्यवधानं करोति अन्तर+णिच्+क्तः(कर्मणि) ‘निष्ठा’ ३.२.१०२। आच्छादितः, प्रसृतः। ‘प्रसृतान्तरितौ समौ’ त्रिका०। ‘मेघैरन्तरितः प्रिये तव मुखच्छायानुकारी शाशी’ सा०द०१०.६२.१०। ३.अन्तर्हितः, अदृश्यः। ‘द्विषत्प्रतापान्तरितोरुतेजाः’ किरा०३.४५। ४.वियोजितः, व्यवकलिताङ्कः -लीला०।