| YouTube Channel

अन्तःपुराध्यक्ष (antaHpurAdhyakSa)

 
Spoken Sanskrit
English
अन्तःपुराध्यक्ष antaHpurAdhyakSa
m.
chamberlain
अन्तःपुराध्यक्ष antaHpurAdhyakSa
m.
superintendent of the women's apartments
Monier Williams Cologne
English
अन्तः—पुर-रक्षक or अन्तः—पुर-वर्तिन् or अन्तः—पुराध्यक्ष,
m.
superintendent of the women's apartments, chamberlain.
Goldstucker
English
अन्तःपुराध्यक्ष Tatpur. m. (-क्षः) The overseer of a gynæ-
ceum. E. अन्तःपुर and अध्यक्ष.
Apte Hindi
Hindi
अन्तःपुराध्यक्षः
पुं*
अन्तर्-पुरम्-अध्यक्षः -
अन्तःपुर का अधीक्षक या संरक्षक
L R Vaidya
English
antar-pura˚aDyakza {% m. %} a chamberlain
a superintendent of the harem.
Indian Epigraphical Glossary
English
Antaḥpur-ādhyakṣa (IE 8-3
EI 13
SII 11-2), superinten-
dent of the royal harem
same as Āntaḥpurika, Stryadhyakṣa, etc.,
and Sanskrit-Kannaḍa Antaḥpura-vĕrgaḍĕ (IE 8-3)
sometimes
also called Mahāpradhāna, Mahāpasāyita, Hĕri-Lāḻa-Kannaḍa-
sandhivigrahin, Manĕ-vĕrgaḍĕ, etc., additionally.
अभिधानचिन्तामणिः
Sanskrit
--source--
स्यातामन्तःपुराध्यक्षेऽन्तर्वंशिकावरोधिकौ ७२६
-wordlist-
अन्तःपुराध्यक्ष (पुं), अन्तर्वंशिक (पुं), अवरोधिक (पुं)
शब्दकल्पद्रुमः
Sanskrit
अन्तःपुराध्यक्षः,
पुं,
(अन्तःपुरस्य अध्यक्षः रक्षकः, षष्ठीतत्पुरुषः ।) राज्ञामन्तःपुररक्षकः तल्ल-क्षणं यथा, --“वृद्धः कुलोद्गतः शक्तः पितृपैतामहः शुचिः ।राज्ञामन्तःपुराध्यक्षो विनीतश्च तथेष्यते”
इति युक्तिकल्पतरुः
वाचस्पत्यम्
Sanskrit
अन्तःपुराध्यक्ष
पु०
त० “वृद्धः कुलोद्गतः शक्तः पितृ-पैतामहः शुचिः राज्ञामन्तःपुराध्यक्षो विनीतश्च तथेष्यते”इति नरपत्युक्तलक्षणेऽन्तःपुराधिवृते अन्येऽपि पञ्च तथा, “पञ्चापरे वामनको जघन्यः कुब्जोऽपरो मण्डलकोऽथसामी पूर्व्वोक्तभूपानुचरा भवन्ति सङ्कीर्णसंज्ञाः शृणुलक्षणै-स्तान्
सम्पूर्णाङ्गो वामनो (१) भग्नपृष्ठः किञ्चिच्चोरु-र्मध्यकक्षान्तरेषु ख्यातो राज्ञो ह्येष भद्रानुजीवी स्फीतोदाता वासुदेवस्य भक्तः
मालव्यसेवी तु जघन्यनामाखण्डेन्दुतुल्यश्रवणः सुसन्धिः शुक्रेण सारः पिशुनःकविश्च रूक्षच्छविः स्थूलकराङ्गुलीकः
क्रूरो धनी स्थूल-मतिः प्रतीतस्ताम्रच्छविः स्यात् परिहासशीलः उरोऽंह्रि-हस्तेष्वसिशक्तिपाशपरश्वधाङ्कश्च जघन्थनामा (२)
कुब्जो (३)नाम्नायः शुद्धो ह्यधस्तात् क्षीणः किञ्चित्पूर्वकाये नतश्च ।हंसासेवी नास्तिकोऽर्थैरुपेतो विद्वान् शूरः सूचकः स्यात्कृतज्ञः
कलास्वभिज्ञः कलहप्रियश्च प्रभूतभृतः प्रमदा-जितश्च सम्पूज्य लोकं प्रजहात्यकस्मात् कुब्जोऽयमुक्तःसततोद्यतश्च
मण्डलकनामधेयो रुचकानुचरोऽभिचार-वित् कुशलः कृत्यावैतालादिषु कर्मसु विद्यासु चानुरतः
वृद्धाकारः खररूक्षमूर्धजः शत्रुनाशने कुशलः द्विजदेव-यज्ञयोगप्रसक्तधीः स्त्रीजितो मतिमान्
सामीति (५) यःसोऽतिविरूपदेहः शशानुगामी खलु दुर्भगश्च दाता महा-रम्भसमाप्तकार्यो गुणैः शशस्यैव भवेत् समानः” वृहत्-संहितोक्तलक्षणादिभेदपञ्चकात्