| YouTube Channel

अन्तःपुरं (antaHpuraM)

 
शब्दकल्पद्रुमः
Sanskrit
अन्तःपुरं,
क्ली,
(अन्तर्मध्यवर्त्ति पुरं मृहं, कर्म्म-धारयः ।) राज्ञः स्त्रीगृहं तत्पर्य्यायः अव-रोधनं अवरोधः शुद्धान्तः इत्यमरः
अन्तःपुरादयो राजदारेष्वपि तात्स्थ्यात् वर्त्तन्ते ।यथा “शुद्धान्तसम्भोगनितान्ततुष्टे” इतिनैषधम् इति भरतः
“दाक्षिण्येन ददातिवाचमुचितामन्तःपुरेभ्यो यदा” इत्यभिज्ञानशकुन्तलम्