| YouTube Channel

अन्ज (anja)

 
शब्दकल्पद्रुमः
Sanskrit
अन्ज ञि व्यक्तौ गतौ म्रक्षणे इति कवि-कल्पद्रुमः
अञ्जिष्यति अङ्क्ष्यति अनक्ति ।ञि अक्तोस्ति व्यक्तिः स्फुटीकरणं ।“शरीरभाजां भवदीयदर्शनंव्यनक्ति कालत्रितयेऽपि योग्यतां” ।इति माघः
अनक्ति गात्रं तैलेन जनः इतिदुर्गादासः
वाचस्पत्यम्
Sanskrit
अन्ज गतौ कान्तौ म्रक्षणे व्यक्तौ रुधा० वर्त्तमाने क्तऊदित् वेट्
पर०
अनक्ति सिचि परस्मैपदे नित्यमिट् ।आञ्जीत्--आनञ्ज अञ्जिता--अङ्क्ता अञ्जिष्यति--ङ्क्ष्यति ।क्त अक्तः क्तिन् अक्तिः क्त्वा--अक्त्वा अञ्जित्वा वि + प्रका-शने व्यनक्ति व्यज्यते “व्यनक्ति कालत्रितयेऽपि योग्यता-मिति” माघः घञ् व्यङ्गः ण्यत् व्यङ्ग्यः “सव्यङ्ग्य-मुत्तमं काव्यमिति” णिच् व्यञ्जयति ल्युट् व्यञ्ज-नम् “अन्यार्थधीकृत् व्यापृतिरञ्जनम्” का० प्र० ।कर्त्तरि ल्यु व्यञ्जना एकत्रार्थेऽन्यधीहेतुर्व्यञ्जना साभिधा-श्रयेति” सा० द०