अन्चु (ancu)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
धातुप्रदीपः
Sanskritअन्चुँ अञ्चु गति, पूजनयोः
- अञ्चति । आनञ्च । अञ्चित्वा । अक्वा । अक्त्वः । अञ्चोऽनपादाने (8/2/48) इति निष्ठानत्वम् । समक्नः। उदक्तमुदकं कूपात् अञ्चिता अस्य गुरवः । प्राङ् । सध्र्यङ् । पूजायां प्राञ्चा । प्राङ् भ्यां । प्राङ् भिः । गतौ प्राचा प्राग्भ्यामित्यादि । स्त्रियामञ्चतेरुपसंख्यानम् (4/1/6 वा) इति ङीप् ।अचः (6/4/138) इत्यकारलोपे चौ (6/3/138) इति दीर्घत्वम्-प्राची । उद ईत (6/4/139) इति ईकारः-उदीची बाह्वादिषूदञ्चशब्दः पठ्यते । औदञ्चिः । शैषिके द्युप्राग् (4/2/101) इत्यादिना यत्-प्राचि जातः प्राच्यो गजः । विभाषाञ्चेः (5/4/8) इति खः-प्राचीनो वृक्षः। प्राचीना ब्राह्मणी ।। 185 ।।
अन्चुँ अञ्चु गतौ, याचने च
- अञ्चति ।अञ्चचे । अञ्चित्वा अक्त्वा । गतावस्य पूर्वपाठे फलं कर्त्रभिप्राये क्रियाफलेऽपि परस्मैपदम् । अचु इत्येके । अचति । अचते ।। 865 ।।
अन्चुँ अन्चु विशेषणे
- अञ्चयति अन्यत्राञ्चति 205
वाचस्पत्यम्
Sanskritअच(अन्चु) गतौ पूजायाञ्च प० सेट् । तत्र अचइदित् ञीदिच्च (अन्चु) अव्यक्तशब्दे च । अञ्चति आञ्चीत्अन्चु--गतौ अच्यात् पूजायामञ्च्यात् । क्त अक्तःपूजायामुभयोः अञ्चितः अचि--वर्त्तमाने क्त अञ्चितः ।अन्चु--क्त्वा अञ्चित्वा--अक्त्वा अचि--अञ्चित्वा । “अयमञ्चतिपञ्चशरानुचर” इति सा० टी० । प्र + प्रकर्षे पूर्व्वदिक्-कालवृत्तौ च प्राञ्चति प्राङ्(पूर्व्वकालः) प्राची (पूर्व्वा दिक्)परा + प्रतिगतौ, आभिमुख्याभावे, पश्चाद्भावे, बहिर्भावे चपराञ्चति (परागच्छति) पराङ् (बाह्यः) । अप +अपसरणे अपाञ्चति । सम् + सुन्दरगमने, यथोचित-गमने च समञ्चति सम्यङ् । अनु + पश्चाद्गतौ । अन्व-ञ्चति अन्वङ् । उद् + ऊर्द्ध्वगमने, उत्तरदिग्वृत्तौ चउदञ्चति (उद्गच्छति) “उदञ्चद्रोमाञ्चमिति” उदङ् देशःउदीची (उत्तरा दिक्) । परि + समन्ताद्गतौ । पर्य्यञ्चति ।प्रति + प्रतीपगतौ, पश्चाद्गतौ, पश्चाद्वर्त्तित्वे च प्रत्यञ्चति(प्रतीपं गच्छति) । प्रत्यङ्, प्रतीची (पश्चिमा दिक्) । आत्मनिव्याप्त्यर्थकप्रतिना योगात् प्रत्यक्शब्दः तस्य सर्वविषय-व्यापकत्वात् प्रत्यक्त्वम् । नि + न्यूनीभावे न्यञ्चति न्यङ्न्यग्भावः न्यक्कारः । अव + अधोगतौ, दक्षिणदिग्वृत्तौच । अवाञ्चति अवाङ् (अधोमुखः) अवाची (दक्षिणा दिक्)यथा च उत्तरदक्षिणयोः ऊर्द्धाधोभावस्तया अवाक्शब्देवक्ष्यते ।
क्षीरतरङ्गिणी
Sanskritअन्चुँ अञ्चु गति, पूजनयोः
- अञ्चति आनञ्च अक्त्वा, अञ्चित्वा, उदितो वा (7256) इट् अञ्चेः पूजायाम् (7253) इति क्त्वानिष्ठयोर्नित्यमिट्-अञ्चित्वा गुरून्, अञ्चितो राजा, अन्यत्र यस्य विभाषा (7215) इति निष्ठायां नेट्-समक्नौ शकुनेः पादौ, अञ्चोऽनपादाने (8248) इति नत्वम्, अपादाने तु - उदक्तम् उदकं कूपात् अनिदितां हल उपधायाः क्ङिति (6424) इति नलोपो नाञ्चेः पूजायाम् (6430) इति नास्ति-अञ्चिता गुरवः नावञ्चेः (उ0 117) इति कुः-न्यङ्कुः, न्यङ्क्वादित्वात् (द्र0 7353) कुत्वम् वृक्षशुनोरन्यत्र-न्यञ्चुः स्वेदविन्दुः उदङ्कोऽनुदके (33123) साधुः, उदके तु ल्युट्-उदञ्चनी जलोद्धरणी ऋत्विग्दधृग् (3259) इति क्विप्, उगिदचाम् (7170 इति नुम्-प्राङ् घञि-पर्यङ्कः, पल्यङ्क उदमिति निपातितम् 187
अन्चुँ अन्चु विशेषणे
- (अर्थविवरणम्) विशेषणम्-अतिशयः
अञ्चयत्यर्थान्, व्यक्तीकरोत्यर्थः भ्वादौ अन्चु गतौ (1119)-अञ्चति 208
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
धातुवृत्तिः
Sanskritअन्चुँ अञ्चु (अर्थः) गति, पूजनयोः
( अञ्चति आनञ्च अञ्चित्यादि ) गतौ व्यत्यञ्चतीत्यत्र "न गतिहिंसा'' इति तङ्निषेधः पूजायां तु"नाञ्चेः पूजायाम्'' इति नलोपनिषेधाद् (अञ्च्यते गुरुः अञ्च्यादिति भवति अञ्चित्वा अङ्क्त्वा ) "उदितो वा'' इति इड्विकल्पः इटि "न क्वा सेट्'' इत्यकित्त्वान्नलोपाभावः निष्ठायां "यस्य विभाषा'' इतीटः प्रतिषेधात्समक्रमिति, "अञ्चोनपादाने'' इति निष्ठानत्वम् अपादाने तूदक्तमुदकं कूपादिति पृजाया तुं क्त्वानिष्ठयोः "उदितो वा'' इति विकल्पं "यस्य विभाषा'' इति निषेधं च बाधित्वा "अञ्चेः पूजायाम्'' इति नित्यमिट् (अञ्चित्वा अञ्चितोऽस्य गुरुः ) "मतिबुद्धिपूजार्थेभ्यश्च'' इति वर्त्तमाने क्तः मतिरिच्छा, बुद्धिर्ज्ञानं, पूजा सत्कारः, "क्तस्य च वर्त्तमाने'' इति "न लोकाव्यय'' इति निषेधं बाधित्वा कर्त्तरि षष्ठी अस्याश्च "क्तेन च पूजायाम्'' इति समासो निषिध्यते पूजितो यः सुरासुरैरपीत्यत्र वर्त्तमानत्वेन तक्रकौण्डिन्यन्यायेन भूते क्तस्य बाधात तृतीया चिन्त्या यद्वा तेनेत्यधिकार, "उपज्ञाते' इति भूते क्तेन निर्देशाद् अयं वर्त्तमानक्तेन न बाध्यत इति सामान्येन ज्ञापकाश्रयणेनायं प्रयोगः समर्थनीयः तैलमुदच्यतेऽस्मिन्निति तैलोदङ्कश्चर्ममयस्त्रिकाष्ठिः "उदङ्कोऽनुदके'' इति घञ्निपात्यते उदके तूदकोदञ्चनम् ल्युट् "पुंसि संज्ञायाम्'' इति घस्तु न प्रत्युदाहृतः, घघञो रूपे स्वरे वा विशेषाभावात् घञोपि कृदुत्तरपदप्रकृतिस्वरमाद्युदात्तत्वं बाधित्वा "थाथघञ्क्ताजबित्रकाणाम्'' इति उत्तरपदं घञन्तोदात्तमेव प्रत्यञ्चतीति ( प्रत्यङ् )"ऋत्विक्'' इत्यादिना क्विनि "अनिदिताम्'' इत्यादिना नलोपे सौ"उगिदचां सर्वनामस्थाने''इति नुमि हल्ङयादिसंयोगान्तलोपयोः "क्विन्प्रत्ययस्य कुः'' इति कुत्वं ङकारः, प्रत्यञ्चावित्यादि भसंज्ञायां तु "अचः'' लुप्तनकारस्याञ्चतेरकारस्य लोपो भसंज्ञायामित्यल्लोपे ( सूत्रम्) चौ (इति सूत्रम्) लुप्तनकारेञ्चतौ परे पूर्वपदस्य दीर्घं इति दीर्घे ( प्रतीच इत्यादि ) हलादौ जश्त्वे ( प्रत्यग्भ्यामित्यादि ) प्रत्यदिक्षवत्यत्र "खरि च'' इति चर्त्वम् नपुंसके तु स्वमोर्लुकि प्रत्यक् द्विवचनबहुवचनयोः "नपुंसकाच्च''इति शीभावं भत्वे पूर्ववदल्लोपदीर्घयोः ( प्रतीची ) "जस्शसोः शिः'' इति तस्य सर्वनामस्थानत्वाद् "नपुंसकस्य झलचः'' इति नुमि ( प्रत्यञ्चि )शेषं पूर्ववत् स्त्रियां ( प्रतीची ) "अञ्चतेश्चोपसंख्यानम्'' इति ङीपि भत्वे पूर्ववदलोपदीर्घत्वे पूजायां तु सर्वत्र नकारस्य लोपनिषेधाच्छ्रवणम् अत एव "अचः'' "चौ'' इति अल्लोपदीर्घत्वे न भवतः ( प्रत्यञ्चावित्यादि ) पदत्वे संयोगान्तलोपे "क्विन्प्रत्ययस्य'' इति कुत्वं ङकारः, सप्तमीबहुवचने ( सूत्रम्) ङ्णोः कुक् टुक् शरि (इति सूत्रम्) ङकारणकारयोः पदान्तयोर्यथासंख्यं कुक्टुकौ शरि वेति कुकि [ चयो द्वितीयाः शरि पौष्कारसादे ] इति वा खकारे ( प्रत्यङ्क्षु प्रत्यङ्षु प्रत्यङ्खष्विति ) त्रीणि रूपाणि नपुंसके शीभावे विशेषः उत्पूर्वत्वे ( सूत्रम्) उद ईत् (इति सूत्रम्) इति उदः परस्य लुप्तनकारस्याञ्चतेरादेः भसंज्ञायामीकारे ( उदीचः ) इत्यादि अन्यत्सर्वं प्रत्यक्शब्दवत् प्रतीच्यादिभ्यो ( सूत्रम्) दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः (इति सूत्रम्) इति दिगादिवृत्तिभ्यः सप्तम्याद्यन्तेभ्यः स्वार्थे वास्तातिः दिशि दृष्टः शब्दो दिक्शब्दः "अञ्चेर्लुक्'' इत्यास्तातेर्लुक् "लुक् तद्धितलुकि'' इति स्त्रीप्रत्ययस्य लुक् ( प्रत्यग्वसति प्रत्यगागतः प्रत्यग्रमणीयमित्यादि ) प्रत्ययलक्षणेन तद्धितान्तत्वात् "तद्धितश्चासर्वविभक्तिः''इति अव्ययत्वात्सुपो लुक् अस्तातेरभावे प्रतीच्यामागतः( प्रतीची रमणीया ) इत्यादि ( प्रागेव पुरुषः प्राचीनः प्रागेवकुलं प्राचीनम् प्राच्येव ब्राह्मणी प्राचीना ) इति "विभाषाञ्चेरदिक्स्त्रियाम्'' इत्यञ्चत्यन्तात् प्रातिपदिकात्स्वार्थे वा खः अदक्स्त्रियामित्युक्तत्वाद् दिग्वृर्त्तेरप्यस्तात्यन्तादव्ययादलिङ्गादस्त्रीवृत्तित्वात्खो भवति प्राचीनं दिगिति यदा सप्तमीपञ्चम्यर्थादस्मात् खस्तदापि सप्तमीपञ्चम्योरर्थस्याभिहितत्वात् प्रादिकार्थत्वात् प्रथमैव, ( प्राचीनां दिशि वसति, प्राचीनं दिशि आगत) इति तथा च स्थानिवत्सूत्रे भाष्यं, ( प्राचीनं ग्रामादाम्रा ) इति, प्राचि देश इत्यर्थः खान्तोयं स्वभावान्नपुंसकलिङ्गः, ( प्राच्यम् अपाच्यम् उदीच्यम् प्रतीच्यम् ) "द्युप्रागपादुदक्प्रतीचो यत्'' इति शैषिको यत् ( सम्यक् ) "समः समि'' इति अञ्चतावप्रत्ययान्त उत्तरपदे समः सम्यादेशः तिर्यङ् "तिरसस्तिर्यलोपे'' इति "अचः'' इति लोपाभावे तिर्यादेशे यण् लोपे तु ( तिरश्च )इत्यादि सहाञ्चतीति ( सध्न्यङ् ) "सहस्य सध्रिः'' इत्यञ्चतावप्रत्ययान्त उत्तरपदे सध्यादेशः विष्वगञ्चतीति ( विष्वगद्यङ् देवानञ्चतीति देवाद्यङ् ) ( सूत्रम्) विष्वक्देवयोश्च टेरद्यञ्चतावप्रत्यये (इति सूत्रम्) अप्रयान्तउत्तरपदे चकारात्सर्वनाम्नश्च ( सर्वद्र्यङ् इत्यादि) अदसोद्र्यादेशे मतभेदः "अदसोसेर्दादु दो मः'' इति असकारान्तस्यादसो दकारात्परस्य विधीयमानमुत्वमकाररेफयोरपि, तथा दो म इति मत्वमपि द्वयोरपि दकारयोरिति ( अमुमुयङ् ) इति भवतीति केचित् अदसो रेफादेशस्योकारस्य इकारापेक्षया यण् उत्वस्य पूर्वत्रासिद्धत्वान्न भवति शसादौ भत्वे "अच" इत्यल्लोपे 'चौ' इति अद्रेरिकारस्य दीर्घे पूर्ववदुकारस्य रेफादेशस्य यणभावे ( अमुमुईचः ) इत्यादि अपरे तूत्वमत्वे अन्त्यसदेशयोरेव रेफदकारयोरिति ( अदमुयङिति ) रूपं प्रतिपन्नाः अत्रापि पूर्ववदुकारस्य यणभावः शसादावल्लोपादि च अन्ये च असेरितिपदमः सेः सकारस्थानिकोऽकारो यस्येति व्याचक्षाणा अद्यादेशे त्यदाद्यत्वाभावान्नोत्वमत्वे इति अद्यङिति रूपमाहुः तथा च श्लोकवार्त्तिकम्---
अदसोद्रेः पृथङ् मुत्वं के चिदिच्छन्ति लत्ववत् के चिदन्त्यसदेशस्य नेत्येके ऽसेर्हि दृश्यते इति
अञ्चु गतियाचनयोरित्यग्रे स्वरितेत् विशेषणार्थो युजादौ 186
अन्चुँ अञ्चु (अर्थः) गतौ, याचने च
(अञ्चतीत्यादि) अञ्चु गतिपूजनयोरित्यत्रैवोदाहृतम् (अञ्चते आनञ्चे अञ्चितासे अञ्चिचिषते ) पूर्वत्र गताविति पाठः क्रियाफलस्य कर्त्तृगामित्वे परस्मैपदार्थः अचु इत्येक इति मैत्रेयः क्षीरस्वामी अञ्चु गतौ, अञ्चि गताविति द्वौ धातूपपाठ तत्र इदित्त्वप्रयोजनममञ्चित इत्यादौ नलोपाभावमाहुः काश्यपमैत्रेयसंमाकारास्त्वस्य इदित्त्वं नामुमन्यन्ते, अञ्चु इति पठन् शाकटायनोपि उदित्पक्ष एवानुकूलः, तेन त्विदित्स्थान एव उदित्पठ्यते 847
अन्चुँ अञ्चु (अर्थः) विशेषणे
(अर्थविवरणम्) विशेषणं व्यावर्तनम्
उदित्त्वाद्विभाषितो णिच् ( अञ्चयति अञ्चति ) गतिपूजनयोरञ्चतीति भ्वादौ, गतियाचनयोरञ्चतइत्यपि 203
कृदन्तरूपमाला
Sanskrit1 {@“अन्चु गतिपूजनयोः”@} 2 ‘गतियाचनयोरञ्चत्यञ्चते, णौ विशेषणे।
अञ्चयत्यञ्चतीत्येकं गतिपूजनयोरपि।।’ इति 3 देवः।
अञ्चकः-ञ्चिका, अञ्चकः-ञ्चिका, अञ्चिचिषकः-षिका
अञ्चिता-त्री, अञ्चयिता-त्री, अञ्चिचिषिता-त्री
अञ्चन्-न्ती, अञ्चयन्-न्ती, अञ्चिचिषन्-न्ती
अञ्चिष्यन्-ती-न्ती, अञ्चयिष्यन्-ती-न्ती, अञ्चिचिषिष्यन्-ती-न्ती
अञ्चयमानः, अञ्चयिष्यमाणः
4 5 प्राङ्, उदङ्, देवद्र्यङ्, तिर्यङ्, अध् 6 यङ्, न्यङ् 7, सध्य्रङ्, सध्री 8 ची
अञ्चितम् 9 -तः 10 -तवान्, अक्तम्-क्तः-क्तवान्, 11 समक्नः-समक्नवान्, अञ्चितम्-तः-तवान्, अञ्चिचिषितम्-तः-तवान्
अञ्चः, अञ्चः, अञ्चिचिषुः, अञ्चिचयिषुः
अञ्चितव्यम्, अञ्चयितव्यम्, अञ्चिचिषितव्यम्
अञ्चनीयम्, अञ्चनीयम्, अञ्चिचिषणीयम्
अङ्क्यम्, 12 अञ्च्यम्, अञ्च्यम्, अञ्चिचिष्यम्
ईषदञ्चः, दुरञ्चः, स्वञ्चः
अञ्च् 13 यमानः, अच्यमानः, अञ्च्यमानः, अञ्चिचिष्यमाणः
अञ्चः, 14 उदङ्कः, 15 अङ्कः, अञ्चः, अञ्चिचिषः
16 अञ्चितुम्, अक्तुम्, अञ्चयितुम्, अञ्चिचिषितुम्
अञ्चा, अञ्चना, अञ्चिचिषा, अञ्चिचयिषा
अञ्चनम्, उदकोदञ्चनः, अञ्चनम्, अञ्चिचिषणम्
अञ्चित्वा, अक्त्वा, अञ्चयित्वा, अञ्चिचिषित्वा
समञ्च्य, समच्य, प्राञ्च्य, समञ्चिचिष्य
अञ्चम् २, अञ्चित्वा २, अक्त्वा २, अञ्चम् २, अञ्चयित्वा २, अञ्चिचिषम् २
अञ्चिचिषित्वा २
01 (२४)
02 (१-भ्वादिः-१८८-स-पर। से।)
03 (श्लो ५०)
04 [पृष्ठम्००२३+ ३९]
05 [[१। ‘ऋत्विगू--’ (३-२-५९) इत्यादिना क्विन्। ‘अनिदितां--’ (६-४-२४) इति नलोपे, ‘उगिदचां--’ (७-१-७०) इति नुम्। नुमो नकारस्य, ‘क्विन्प्रत्य- यस्य कुः’ (८-२-६२) इति कुत्वम्।]]
06 [[आ। ‘अध्यङ् शस्त्रभृतां रामः न्यञ्चस्तं प्राप्य मद्विधाः’ भ। ५-३६।]]
07 [[आ। ‘अध्यङ् शस्त्रभृतां रामः न्यञ्चस्तं प्राप्य मद्विधाः’ भ। ५-३६।]]
08 [[B। ‘सीतां सौमित्रिणा त्यक्तां सध्रीचीं त्रस्नुमेकिकाम्’ भ। ६-७।]]
09 [[२। ‘अञ्चेः पूजायाम्’ (७-२-५३) इतीट्। गतौ तु नलोपः।]]
10 [[C। ‘उच्चैरञ्चितलाङ्गूलः शिरोऽञ्चित्वेव संवहन्’ भ। ९-४०।]]
11 [[३। ‘अञ्चोऽनपादाने’ (८-२-४८) इति निष्ठानत्वम्। अपादाने तु ‘उदक्त- मुदकं कूपात्’ इति भवति। ‘उदितो वा’ (७-२-५६) इति क्त्वायां इड्विकल्पात् ‘यस्य विभाषा’ (७-२-१५) इतीण्णिषेधः।]]
12 [[४। गत्यर्थे निष्ठायामनिट्त्वात् कुत्वम्। पूजायां ‘अञ्चेः पूजायाम्’ (७-२-५३) इति सेट्त्वात् कुत्वाभावः। ‘चजोः कु घिण्ण्यतोः’ (७-३-५२) इति कुत्वम्।]]
13 [[५। ‘नाञ्चेः पूजायाम्’ (६-४-३०) इति पूजायां नलोपनिषेधः। गतौ तु ‘अनिदिताम्--’ (६-४-२४) इति नलोपः।]]
14 [[६। ‘उदङ्कोऽनुदके’ (३-३-१२३) इति घञन्तो निपातितः।]]
15 [[ड्। ‘हृदयोदङ्कसंस्थानं कृतान्ताऽऽनायसन्निभम्’ भ। ७-८३।]]
16 [पृष्ठम्००२४+ २१]
1 {@“अन्चु गतौ याचने च”@} 2 ‘गतियाचनयोरञ्चत्यञ्चते, णौ विशेषणे।
अञ्चयत्यञ्चतीत्येकं गतिपूजन- योरपि।।’ इति 3 देवः।
शानचि-अञ्चमानः, अञ्चिष्यमाणः, अञ्चि- चिषमाणः, अञ्चिचिषिष्यमाणः, इत्यादिरूपाणि अधिकानि।
अवशिष्टानि गतिपूजनार्थक 4 धातौ गत्यर्थकधातुवत् ज्ञेयानि।
‘अचि’ इति पाठे तु निष्ठायां अञ्चितः इत्येकमेव रूपम्।
‘अनिदिताम्--’ 5 इति नलोपो न भवति।
“अचु” इति पाठे तु अचन्-अचन्ती इत्यादिरूपाणि।
क्त्वायाम्, ‘उदितो वा’ 6 इतीड्विकल्पः--अचित्वा-अक्त्वा इति रूपे।
निष्ठायां तु ‘यस्य विभाषा’ 7 इति वचनात् अक्तम्-इत्येकमेव रूपम्।
01 (२५)
02 (१-भ्वादिः-८६२। उभ। सक। से।)
03 (श्लो ५०)
04 (२४)
05 (६-४-२४)
06 (७-२-५६)
07 (७-२-१५)
1 {@‘अन्चु विशेषणे’@} 2 विशेषणम् = व्यावर्तनम्।
उदित्करणात् विभाषितो णिच्।
‘गति- याचनयोरञ्चत्यञ्चते णौ विशेषणे।
अञ्चयत्यञ्चतीत्येकं गतिपूजनयोरपि।।’ इति 3 देवः।
णिच्पक्षे गतिपूजनार्थकधातौ 4 णिजन्तरूपाणीव, णिजभावपक्षे च भौवादिकगत्यर्थका 5 ञ्चुधातुवद्रूपाणीति च ज्ञेयानि।।
6
01 (२६)
02 (१०-चुरादिः-१७३९। उभ। से।)
03 (श्लो-५०)
04 (२४)
05 (२४)
06 [पृष्ठम्००२५+ ३०]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
