| YouTube Channel

अन्च (anca)

 
शब्दकल्पद्रुमः
Sanskrit
अन्च गतिपूजनयोः इति मुग्धबोधे वोपदेवः
अन्च पूजने गमने म्लिष्टोक्तौ इति कवि-कल्पद्रुमः
अञ्चित्वा अङ्क्त्वा म्लिष्टोक्तिर-व्यक्तशब्दः इति दुर्गादासः
अन्च व्यक्तौ इति कविकल्पद्रुमः
व्यक्तिरिहविशेषणं अञ्चयति बुद्धिं सुधीः विशिनष्टी-त्यर्थः इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
अन्च व्य क्तौ
चु०
उभ०
सक०
सेट् अञ्चयति--ते आञ्चिचत्-त कर्म्मणि अञ्च्यते णिजभावे अच्यते इति भेदः“पूर्ण्णात् पूर्ण्णमुदच्यते” इति श्रुतिः