| YouTube Channel

अनैश्वर्य्य (anaizvaryya)

 
वाचस्पत्यम्
Sanskrit
अ(आ)नैश्वर्य्य
न०
अनीश्वरस्य भावः आद्यचो वा वृद्धिः ।अनीश्वरत्वे अधीनत्वे नास्ति ऐश्वर्य्यं यस्य अनैश्वर्य्यःऐश्वर्य्यशून्ये
त्रि०
आ(अ)नैश्वर्य्य
न०
अनीश्वरस्य भावः ष्यञ् उत्तरपदवृद्धिःपूर्व्वस्यपदस्यवा ऐश्वर्य्याभावे ऐश्वर्य्यविरोधिनि सांख्या-दिमतसिद्धे बुद्धेर्धर्मभेदे धर्म्माधर्म्मज्ञानाज्ञानवैराग्यावैराग्यै-श्वर्य्यानैश्वर्य्यरूपा अष्टौ बुद्धेर्धर्मास्ते भापरूपा एव तैरभा-वानङ्गीकारात् तत्र ज्ञानभिन्नानां सप्तानां बन्धहेतुत्वम् ज्ञा-नेन मोक्ष इति तेषां सिद्धान्तः यथाह सांका० कौमुद्योः”“रूपैः सप्तभिरेव तु बध्नात्यात्मानमात्मना प्रकृतिः सैव चपुरुषार्थं प्रति विमोचयत्येकरूपेण” तत्त्वज्ञानवर्जं ब-ध्नाति धर्मादिभिः सप्तभिः रूपैरिति पुरुषाथं प्रतिभोगापवर्गौ प्रति आत्मनात्मानमेकरूपेण तत्त्वज्ञानेन विवे-कख्यात्या विमोच्यति पुनर्भोगापवर्गौ करोतीत्यर्थः”