| YouTube Channel

अनेकवर्णसमीकरण (anekavarNasamIkaraNa)

 
Goldstucker
English
अनेकवर्णसमीकरण Tatpur. n. (-णम्) (In Arithmetic.) Multi-
literal equation, equation involving several unknown quan-
tities, ‘where more than one unknown quantity represented
severally by colours (equivalent to our x, y, z &c.) being
premised, two sides are equated’. E. अनेक-वर्ण and समीकरण.
वाचस्पत्यम्
Sanskrit
अनेकवर्णसमीकरण
न०
अनेकवर्णाः अज्ञातविशेषसंख्यका-नेकराशयः समीक्रियन्ते ज्ञातसंख्यकसमतया क्रियन्ते यत्र ।वीजभेदे यथोक्तं भास्करवीजगणिते “अथानेकवर्णसमीकरणंवीजम् तत्र सूत्रं सार्द्धवृत्तत्रयम् ।” “आद्यं वर्ण्णं शोध-येदन्यपक्षादन्यान् रूपाण्यन्यतश्चाद्यभक्ते पक्षेऽन्यस्मिन्नाद्य-वर्णोन्मितिः स्याद्वर्णस्यैकस्योन्मितीनां बहुत्वे
समीकृत-च्छेदगमे तु ताभ्यस्तदन्यवर्ण्णोन्मितयः प्रसाध्याः अन्त्यो-न्मितौ कुट्टविधेर्गुणाप्ती ते भाज्यतद्भाजकवर्ण्णमाने
अन्ये-ऽपि भाज्ये यदि सन्ति वर्ण्णास्तन्मानमिष्टं परिकल्प्यसाध्यम् विलोमलोत्थापनतोऽन्यवर्ण्णमानानि भिन्नं यदिमानमेवम्
भूयः कार्य्यः कुट्टको ऽत्रान्त्यवर्ण्णं तेनोत्थाप्यो-त्थापयेद्व्यस्तमानात्” “इदमनेकवर्ण्णसमीकरणं वीजं यत्रो-दाहरणे द्वित्र्यादयोऽव्यक्तराशयो भवन्ति तेषां यावत्ता-वदादयो वर्ण्णाः मानेषु कल्प्यास्तत्र पूर्व्वाचार्य्यैः कल्पिताःयावत्तावत्, कालक, नीलक, पीतक, लोहितक, श्वेतक, चित्रक, कपिलक, पिङ्गलक, धूम्रक, पाटलक, शवलक, श्यामलक, मेचका, इत्यादि अथ वा कादीन्यक्षराणिअव्यक्तानां संज्ञाः असङ्करार्थं कल्प्याः अतः प्राग्वदुद्देश-कालापवद्विघिं कुर्वता गणकेन पक्षौ समौ कार्य्यौ पक्षा वासमाः कार्य्याः ततः सूत्रावतारोऽयं तयोः समयोरनेकस्मात्पक्षादितरपक्षस्याद्यं वर्ण्णं शोधयेत्तदन्यवर्णान् रूपाणि चइतरपक्षाच्छोधयेत्ततः आद्यवर्ण्णशेषेणेतरपक्षे भक्ते भाजक-वर्णोन्मितिः बहुषु पक्षेषु ययोर्ययोः साग्यमस्ति तयोरेवंकृते सति अन्या उन्मितयः स्युः ततस्तासून्मितिषु एकवर्ण्णो-न्मितयो यद्यनेकधा भवन्ति ततस्तासां मध्ये द्वयोर्द्वयोः समीकृतच्छेदगमेनाद्यं वर्ण्णं शोधयेदित्यादिनान्यवर्ण्णोन्मितयःस्युः एवं यावत्सम्भवस्ततोऽन्त्योन्मितौ भाज्यवर्ण्णे योऽङ्कःस भाज्यराशिः, यो भाजके भाजकः, रूपाणि क्षेपः, अतः कुट्टकविधिना यो गुण उत्पद्यते तद्भाज्यवर्ण्णमानं, यालब्धिस्तद्भाजकवर्णमानं, तयोर्मानयोर्द्दढभाजकभाज्याविष्टेनवर्णेन गुणितौ क्षेपकौ कल्प्यौ ततः स्वस्वमानेन सक्षेपेणपूर्व्ववर्णोन्मितौ वर्ण्णावुत्थाप्य स्वच्छेदेन हरणे यल्लभ्यते तत्पूर्व्ववर्णस्य मानम् एवं विलोमकोत्थापनतोऽन्यवर्णमा-नानि भवन्ति यदि तु अन्योन्मितौ द्व्यादयी वर्ण्णाभवन्ति तदा तेषामिष्टानि मानानि कृत्वा स्वस्वमानै-स्तानुत्थाप्य रूपेषु प्रक्षिप्य कुट्टकः कार्य्यः अथ यदि विलो-मकोत्थापने क्रियमाणे पूर्व्ववर्ण्णोन्मितौ तन्मितिर्भिन्नालभ्यते तदा कुट्टकविधिना यो गुण उत्पद्यते क्षेपः सभाज्यवर्णमानं तेनान्यवर्णमानेषु तं वर्णमुत्थाप्य पूर्व्वोन्मि-तिषु विलोमकोत्थापनप्रकारेणान्यवर्णमानानि साध्यानि ।इह यस्य वर्णस्य यन्मानमागतं व्यक्तमव्यक्तं, व्यक्ताव्यक्तंवा तस्य मानस्य व्यक्ताङ्केन गुणने कृते तद्वर्ण्णाक्षरस्य निर-सनमुत्थापनमुच्यते” तद्व्याख्या उदाहरणं तत्रैव दृश्यम्