| YouTube Channel

अनूच्यः (anUcyaH)

 
E Bharati Sampat
Sanskrit
(वि) अनूच्यते अनु+वच(परिभाषणे)+क्यप् १.अनुवाच्यम्, आचार्योच्चारणानुसारं पाठ्यम् ।‘पश्चादरण्येऽनूच्यम्’ कात्या०१८.४.२०। २.मञ्चस्य पार्श्वयोः स्थितं काष्ठफलकम् ‘दक्षिणोत्तरयोर्दीर्घे खट्वाङ्गे अनूच्यसंज्ञे’ श्रीशङ्करः।