| YouTube Channel

अनुष्टुप् (anuSTup)

 
Hindi
Hindi
प्रारूप नाम
E Bharati Sampat
Sanskrit
(स्त्री) (अनुष्टुभ्) अनु निरन्तरं स्तुभ्नोति अनु+स्तुन्भु(निष्कोषणे)+क्विप्, षत्वम् ‘क्विप् च’ ३.२.७६। १.सरस्वती २.वचनम्, वाक् ३.अष्टाक्षरपादकः छन्दोभेदः। ‘पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः। गुरु षष्ठं तु पादानां शेषेष्वनियमो मतः’ छन्दोम०।
Wordnet
Sanskrit
Synonyms:
अनुष्टुप्
noun
द्वात्रिंशतः वर्णानाम् एकं वर्णवृत्तं यस्मिन् अष्टमात्रिकाः चत्वारः चरणाः सन्ति।
"अनुष्टुपि प्रत्येकस्मिन् चरणे पञ्चमः वर्णः लघुः तथा षष्ठः वर्णः गुरुः अस्ति।"
पुराणम्
English
अनुष्टुप् / ANUṢṬUP. One of the seven horses of the Sun God, the other six being, gāyatrī, bṛhatī, uṣṇik, jagatī, triṣṭup and Paṅkti. (viṣṇu purāṇa, Part II, Chapter 8).
शब्दकल्पद्रुमः
Sanskrit
अनुष्टुप्, [भ्]
स्त्री,
(अनु सततं स्तुभ्यतेऽनया, अनु + स्तुन्भ + क्विप् षत्वं ।) सरस्वती इतिशब्दरत्नावली
अष्टाक्षरपदं छन्दः सा तुसमार्द्धसमविषमवृत्तभेदेन त्रिधा तत्र शेषस्यप्रायिकप्रयोगः तस्य लक्षणं ।“पञ्चमं लघु सर्व्वत्र सप्तभं द्विचतुर्थयोः ।गुरु षष्ठन्तु पादानां शेषेष्वनियमो मतः”
इति छन्दोमञ्जरी
अस्याः प्रस्ताराः २५६ इतिपिङ्गलः