| YouTube Channel

अनुषङ्गी (anuSaGgI)

 
E Bharati Sampat
Sanskrit
(वि) (अनुषङ्गिन्) अनुषङ्ग+इनिः। ‘अत इनिठनौ’ ५.२.११५। १.सम्बद्धः, संलग्नः। ‘महीयसां महति दिगन्तदन्तिनामनीकजे रजसि मुखानुषङ्गिनि’ माघः१७.५७। २.अनुरक्तः। ३.व्यापकः। ‘विभुतानुषङ्गि भयमेति जनः’ किरा०६.३५। ४.अनुक्षणं प्रसक्तः। ‘सप्तकस्यास्य वर्गस्य सर्वत्रैवानुषङ्गिणः’ मनुः ७.५२।