| YouTube Channel

अनुशासिता (anuzAsitA)

 
E Bharati Sampat
Sanskrit
(वि) (अनुशासितृ) अनुशास्ति याथार्थ्येन कर्तव्यम् उपदिशति अनु+शासु(अनुशिष्टौ)+तृच् ‘ण्वुलतृचौ’ ३.१.१३३। १.कर्तव्योपदेशकः। २.दण्डयिता ३.अनुशासकः, प्रशासकः। ‘कविं पुराणमनुशासितारम्’ गीता ८.९। (स्त्री) अनुशासित्री अनुशास्तृ+ङीप् ऋन्नेभ्यो ङीप्’ ४.१.५।