| YouTube Channel

अनुवाद्यः (anuvAdyaH)

 
E Bharati Sampat
Sanskrit
(वि) अनु+वद(व्यक्तायां वाचि)+णिच्+ण्यत् ‘ऋहलोर्ण्यत्’ ३.१.१२४ १.अनुवादयोग्यः, पुनर्वक्तुं योग्यः। २.भाषान्तरेण पुनः कथनयोग्यः। ३.उद्देश्यः, पूर्वप्राप्तावपि किञ्चिद्विधानार्थम् अनुकीर्तनीयः। ‘अनुवाद्यमनुक्त्वैव विधेयमुदीरयेत्’ वृद्धाः।