| YouTube Channel

अनुवादोऽयम् (anuvAdo'yam)

 
कृदन्तरूपमाला
Sanskrit
1 {@“श्रा पाके”@} 2 घटादिः।
‘… श्राति श्रायति लुक्शपोः।।’ 3 इति देवः।
‘श्रै पाके’ 4 इति भौवादिकस्य कृतात्वस्य, ‘श्रा पाके’ 5 इत्यादा- दिकस्य मित्त्वार्थं घटादिषु अनुवादोऽयम्
तु स्वतन्त्रो धातुः।
अत्र सर्वत्र ‘पाकः = विक्लित्तिः’ इति कैयटादयः।
‘स्वेदः’ इति बोपदेवः।
‘क्लेशने’ इति जैनेन्द्रे।
रूपाणि सर्वाणि घाटादिकघटतिवत् 6 बोध्यानि।
प्रासङ्गिक्यः
01
=>
(१७७५)
02
=>
(१-भ्वादिः-८१०। सक। अनि। पर।)
03
=>
(श्लो। ९)
04
=>
(९१९)
05
=>
(१०५३)
06
=>
(४५४)