| YouTube Channel

अनुलोमः (anulomaH)

 
E Bharati Sampat
Sanskrit
(वि) अनुगतः लोम अनु+लोमन्+अच् ‘अच् प्रत्यन्ववपूर्वात्सामलोम्नः’ ५.४.७५ १.यथाक्रमः। ‘वर्णमाला समाख्याता अनुलोमविलोमिका’ तन्त्रसारः। २.अनुकूलः, क्रमानुगतः। ‘जडानप्यनुलोमार्थान् प्रवाचः कृतिनां गिरः’ माघः२.२५। ३.अनुगतरोमः। ‘अनुलोमाःसुलोमाश्च रुचिरा रोमराजयः’ (अ) लोम अनतिक्रम्य ४.यथानियमम्, यथानुकूलम्, यथाक्रमम्
Wordnet
Sanskrit
Synonyms:
अनुलोमः
noun
सङ्गीते स्वराणाम् अवरोहः।
"जाह्नवी अनुलोमं गातुं शक्यते।"
Synonyms:
अनुलोमः
noun
स्वाभाविकः अधोगामी क्रमः
"जडानप्यनुलोमार्थान् प्रवाचः कृतिनां गिरः"[शिशु]"
शब्दकल्पद्रुमः
Sanskrit
अनुलोमः,
पुं,
(अनुपूर्व्वात् लोमशब्दात् अच्, प्रत्यन्व-वेति अच् ।) यथाक्रमं अविलोमः यथा, --“वर्णमाला समाख्याता अनुलोमविलोमिका” ।इति तन्त्रसारे नारदवचनं
(क्रमानुगतः अनु-कूलः ।“जडानप्यनुलोमार्थान् प्रवाचः कृतिनां गिरः” ।इति शिशुपालबधे ।)