| YouTube Channel

अनुरूपः (anurUpaH)

 
E Bharati Sampat
Sanskrit
(वि) रूपम् अनुगतः। १.तुल्यरूपः, सदृशः। ‘सत्त्वानुरूपा सर्वस्य श्रद्धा’ गीता १७.३। २.तुल्यगुणः, योग्यः। ‘अथानुरूपाभिनिवेशतोषिणा’ कुमा०५.७।
शब्दकल्पद्रुमः
Sanskrit
अनुरूपः, त्रि, (रूपमनुगतः प्रादिसमासः ।) तुल्य-रूपः सदृशः यथा, --“देबानामनुरूपा हि चरन्त्येते महीतले” ।इति रामायणं
(तुल्यगुणः योग्यः ।“तस्यामात्मानुरूपायामात्मजन्मसमुत्सुकः” ।इति रघुवंशे ।)