| YouTube Channel

अनुरुरुत्सिता-त्री (anururutsitA-trI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“2 रुध कामे”@} 3 ‘अनुपूर्वो रुधिः कामेऽर्थे तङ्श्यनौ भजते।’ इति धा।
का।
व्याख्यायां 4 विवृतम्।
‘रुन्धे रुणद्ध्यावरणे, कामेऽनावनुरुध्यते।।’ 5।
इति देवः।
अनुरोधकः-धिका, अनुरोधकः-धिका, अनुरुरुत्सकः-त्सिका, अनुरोरुधकः-धिका
अनुरोद्धा-द्ध्री, अनुरोधयिता-त्री, अनुरुरुत्सिता-त्री, अनुरोरुधिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि दैवादिकक्षुध्यतिवत् 6 बोध्यानि।
7 8 अनुरोधी 9]।
प्रासङ्गिक्यः
01
=>
(१४२३)
02
=>
[अनो]
03
=>
(४-दिवादिः-११७४। सक। अनि। आत्म।)
04
=>
(२-६२)
05
=>
(श्लो। १२१)
06
=>
(३१५)
07
=>
[पृष्ठम्११३१+ ३०]
08
=>
[[१। तच्छीलादिषु कर्तृषु, ‘सम्पृचानुरुध…’ (३-२-१४२) इति घिनुण्। अत्र, “… ‘अनो रुध कामे’ इत्यस्य तु दैवादिकस्याग्रहणम्-पृचिना साहचर्यात्। अनुना सह पठितस्य दैवादिकस्य ग्रहणमित्यन्ये।” इति पदमञ्जरी। वस्तुतः-- रौधादिकस्यैव धातोरनुपूर्वकत्वे कामनार्थकत्वे दैवादिकपाठः इत्यस्य सैद्धान्तिक- पक्षत्वेन प्रकृतसूत्रे (३-२-१४२) दैवादिकस्यैवास्य ग्रहणम्। साहचर्यपरिभाषा- श्रयणे अनन्यथासिद्धं बीजं पश्यामः। अत एव क्वचिद् भट्टिकाव्यव्या- ख्याने (७-९) ‘एता देवानुरोधिन्यो द्वेषिण्य इव रागिणम्।’ इत्यत्र अनुरुध्यन्तीति श्यना विवरणं संगतम्। इत्यलमत्र।]]
09
=>
[[आ। ‘कंसानुरोध्यणनहृन्मतिमद्युगर्च्यः--।।’ धा। का। २-६२। [अत्र धा। का। व्याख्यायां णिन्यन्तत्वेन प्रकृतशब्दस्य निष्पत्तिः कृतेति विभाव्यम्।]]