| YouTube Channel

अनुरक्तः (anuraktaH)

 
E Bharati Sampat
Sanskrit
(वि) अनु+रञ्ज(रागे)+क्तः(कर्तरि) ‘गत्यर्थाकर्मक०’ ३.४.७२। १.अनुरागयुक्तः, प्रीतियुतः। ‘अपि वृषलमनुरक्ताः प्रकृतयः’ मुद्रा०१.२०.१०। २.अनुगतः रक्तं रागम् प्राप्तरक्तवर्णः। ३.अनुकूलः। ‘गुणानुरक्तामनुरक्तसाधनः’ किरा०१.३१।
शब्दकल्पद्रुमः
Sanskrit
अनुरक्तः, त्रि, (अनु + रन्ज + कर्त्तरि क्तः ।) आ-सक्तः अनुरागयुक्तः यथा, --“अनुरक्तो गुणान् ब्रूते विरक्तो दूषणानि च” ।इत्युद्भटः