| YouTube Channel

अनुभावी (anubhAvI)

 
E Bharati Sampat
Sanskrit
(वि) (अनुभविन्) अनुभावयति अनु+भू(सत्तायाम्)+णिच्+णिनिः। ‘सुप्यजातौ णिनिः०’ ३.२.७८। १.चेष्टादिभिः मनोगतावबोधकः। २.साक्षात्कारादिकारकः। ३.अनुभवति अनु+भू+णिनिः। ‘नन्दिग्रहि०’ ३.१.१४। साक्षी ‘अनुभावी तु यः कश्चित् कुर्यात्साक्ष्यं विवादिनाम्’ मनुः८.६९। ४.अनु पश्चाद् भवति कनिष्ठः। ‘अनुभाविनां परिवापनम्’ आप०स्मृतिः। ५.प्रभावशाली, महिमवान् ६.अनुभावः अस्य अस्ति अनुभाव+इनिः। ‘अत इनि०’ ५.२.११५। दृढसङ्कल्पवान्