| YouTube Channel

अनुपस्कृतः (anupaskRtaH)

 
E Bharati Sampat
Sanskrit
(वि) न+उप+डु कृञ्(करणे)+क्तः, सुट् ‘निष्ठा’ ३.२.१०२। ‘उपात्प्रतियत्नवैकृतवाक्याध्याहारेषु’ ६.१.१३९। १.अकृतपाकादिसंस्कारः। २.अविकृतः, ‘मुन्यन्नानि पयः सोमो मांसं यच्चानुपस्कृतम्’ मनुः। ३.अपरिष्कृतः। ‘विशुध्यति अब्जमश्ममयं चैव राजतं चानुपस्कृतम्’ मनुः५.११२। ४.दृष्टप्रयोजनानपेक्षः। ‘ब्राह्मणार्थे गवार्थे वा देहत्यागोऽनुपस्कृतः’ मनुः१०.६२। ५.अनिन्दितः। ‘एषोऽनुपस्कृतः प्रोक्तो योधधर्मः’ मनुः७.९८।