| YouTube Channel

अनुपदः (anupadaH)

 
E Bharati Sampat
Sanskrit
(वि) अनु पश्चात् पद्यते गच्छति अनु+पद्+अच् ‘नन्दिग्रहि०’ ३.१.१३४। १.अनुगः, पश्चाद्‍गामी (न) २.अनुरूपं पदम् अनुकूलस्थानम् ३.गीतस्य ध्रुवपदम् (अ) अनुपदम् पदं पदं प्रति ४.प्रतिपदम्, शब्दशः। ५.पदयोः समीपम् सामीप्यार्थे अव्ययी०। पादसमीपे ६.पदस्य पश्चात् पश्चादर्थे अव्ययी०। अन्वक्, अनन्तरम्, अव्यहितोत्तरकालम् ‘अत्वगव्वक्षमनुगेऽनुपदं क्लीबमव्ययम्’ अमरः।‘अमोघाः प्रतिगृह्णन्तौ अर्घ्यानुपदमाशिषः’ रघुः१.४४।