| YouTube Channel

अनुद्रुतं (anudrutaM)

 
शब्दकल्पद्रुमः
Sanskrit
अनुद्रुतं,
क्ली,
(अनु + द्रु + क्तः ।) तालविशेषः सतु द्रुतार्द्धो मात्राचतुर्थभागो वा यथा, --“अर्द्धमात्रं द्रुतं ज्ञेयं द्रुतार्द्धञ्चाप्यनुद्रुतं” ।इति शब्दरत्नावली
अनुधाविते त्रि यथा, --“अनुद्रुतः संयति येन केवलंबलस्य शत्रुः प्रशशंस शीघ्रतां” ।इति माघः